SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पम अध्यायः निदानस्थानम् । १२४१ सह मिश्रीभूत आयमाहारपरिणामधातु रसनामानम् अन्ववेत्य रसस्वेदवहानि स्रोतांसि पिधायाग्निमुपहत्य पक्तिस्थानात् उष्माणं वहिनिरस्य केवलं शरारमनुपद्यते, तदा ततः पूर्वरूपोपदेशार्थ ते चयादयो न पुनर्वाच्या भवन्ति ; इति मनसि कृखा निदानानन्तरं वातज्वरसम्पाप्तिमाह-स यदेत्यादि। स वायुयदा उक्तरुक्षाद्यन्यतमैकानेकनिदानतः सञ्चितः सन् यदा वातज्वरकारणाशुभकर्म फलेन संसृज्यमानः प्रचोदितः प्रकुपितः स्वस्थानात् प्रसरन् आमाशयं प्रविश्य नाभिस्तनान्तरं जन्तोरामाशय इति स्मृत इत्युक्तरूपं प्रविश्य सामान्यतो वक्ष्यमाणं पूर्वरूपं मुखवैरस्य गुरुगात्रसमित्यादिकं जनयति, ततो यदुष्मणो जठराग्नेः स्थानं नाभे मत ऊद्ध स्थानं तदात्मकपच्यमानाशयं प्रविश्य तत्रस्थेनोष्मणा जठराग्निना मिश्रीभूय आदर रसनामानमाहारपरिणामतो यो द्रवरूपो धातुस्तं धातु न तु तत्पोषितं रसनामानं धातु शारीरम्। अन्ववेत्यानुगम्य। रसवहानि सप्तशतानि सूक्ष्मच्छिद्राणि नाभिकन्दजानि स्रोतांसि स्वेदवहानि रोमकूपादीनि पिधायात्य। अग्निमिति उक्तजठराग्निम् उपहत्य मन्दीकृत्य पक्तिस्थानादिति नाभेर्वामत ऊद्धस्थानात् उष्माणं तस्य जाठराग्नेरोषण्यं वहिनिरस्य कियदंशेन रोमकूपतस्त्वगगतं कृला केवलं शरीरं कृत्स्नं देहमनुपद्यते। एतेन स एवाग्निवेहिदहे उष्णतया भाति वायुानाख्यो यः कृत्स्नदेहचरः न तु प्राणादिसंज्ञ इति 'प्रविश्यामाशयम्' इत्यनेन ज्वरकत र्दोषस्यामाशयदूषकत्वं दर्शयति ; अत एव सर्वज्वरे आमाशयविशुद्धयर्थ लङ्घनमुत्सर्गतो वदन्ति ; यद्यपि चामाशयप्रवेशादेवीष्मणापि मिश्रत्वं लभ्यत एव ; यतः आमाशय एव वह्निस्थानम् , “नाभिस्तनान्तरं जन्तोरामाशय इति स्मृतः' इति वचनात्, तथापि वह्निस्थानस्यामाशयैकदेशत्वेनामाशयप्रवेशेऽपि नावश्यं ग्रहणीरूपवह्विस्थानदुरिविशेषेण लभ्यत इति ; अत एवोक्तम्- "उष्मणा सह मिश्रीभूतः” इति । 'रसनामानम्' इत्युच्यमाने आहाररसेऽपि मधुररसादौ प्रसक्तिः स्यात्, भत उक्तम्-'आहारपरिणामभवो धातुराहारपरिणामधातुस्तमिति ; तेन आहारपरिणामधातुत्वञ्च परम्परया रक्तादिष्वप्यस्तीत्याह .--'आद्यम्' इति प्रथममित्यर्थः। रसमिति वक्तव्ये 'रसनामानम्' इति यत् करोति ; तेन रसतीति 'रसः' इति व्युत्पत्तिमात्रेण रक्तादिषु रससंज्ञां निषेधयात ; यत्रैव रससंज्ञा रूढा, तं ग्राहयति, एवमन्यत्रापि च यत्पदमधिकार्थमिह प्रतीयते तत् स्पछार्थमेव, यतस्त्रिविधशिष्यबुद्धिहितमेव विस्पार्थ तन्त्रं युज्यते । अन्विति यथोक्तक्रमेण ; भवेत्य गत्वा ; पिधायेत्यवरुभ्य ; For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy