SearchBrowseAboutContactDonate
Page Preview
Page 614
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir “म अध्यायः]. शारीरस्थानम् । १७६१ विवेकः। पार्थिवाप्ययोः प्रत्यक्षवात् पार्थिवं द्रव्यमबादिभियुक्तं प्रत्यक्षतो गृह्यते। आप्यञ्च त्रिभिः। पराभ्यां तैजसम्। वायव्यमाकाशेन। न चैकैकगुणं गृह्यते इति । निरनुमानन्वनुपविष्टं ह्यपरं परेणेत्येतदिति। नात्र लिङ्गमनुमापकं गृह्यत इति। येनैतदेवं प्रतिपदेवमहि। यच्चोक्तम् अनुपविष्टं ह्यपरं परेणेति। भूतसृष्टौ वेदितव्यं न साम्प्रतमिति नियमकारणाभावाद अयुक्तम्। दृष्टन्तु साम्प्रतमप्यपरं परेणानुप्रविष्टमिति, वायुनानुपविष्टं तेज इति। अनुपविष्टत्वं योगः। स च द्वयोः समानो वायुनानुपविष्टलात् स्पर्श वत् तेजः, न च तेजसानुप्रविष्टवाद रूपवान् वायुरिति नियमकारणं नास्तीति । दृष्टञ्च तैजसेन स्पशेन वायव्यस्पर्शस्याभिभवाद ग्रहणमिति। न च तेनैव तस्याभिभव इति। तदेवं न्यायविरुद्धं प्रवादं प्रतिविध्य सर्वगुणानुपलब्धेरिति चोदितं समाधीयते। पूर्वपूर्वगुणोत्कर्षात् तु तत् तत्प्रधानम् । अस्मान्न सव्वंगुणोपलब्धिः। घ्राणादीनां पूर्वपूच्वंगुणोत्कर्षात् तत्तत्प्रधानम् । का प्रधानता ? विषयग्राहकखम्। को गुणोत्कर्षः ? अभिव्यक्ती समर्थवम् । यथा वाह्यानां पार्थिवाप्यतैजसानां द्रव्याणां पञ्चगुणचतुर्गुणत्रिगुणानां न सर्वगुणव्यञ्जकसम्, गन्धरसरूपोत्कर्षात् तु यथाक्रम गन्धरसरूपव्यञ्जकत्वम्, एवं घ्राणरसनचक्षुषां न सव्वंगुणग्राहकलम् । गन्धरसरूपोत्कर्षात् तु यथाक्रम गन्धरसरूपग्राहकत्वम्। तस्माद् घ्राणादिभिने सबैपां गुणानामुपलब्धिरिति । यस्तु प्रतिजानीते गन्धगुणखाद घ्राणं गन्धं गृह्णाति एवं रसनादिष्वपीति । तस्य यथागुणयोगं घ्राणादिभिगुणग्रहणं न प्रसज्यते इति किं कृतं पुनव्यवस्थानम् ? किश्चित् पार्थिवमिन्द्रियं न सवाणि। कानिचिदाप्य. सैजसवायव्यान्तरीक्ष्याणीन्द्रियाणि, न सर्वाणि । तव्यवस्थानन्तु भूयस्त्वात् । अथ नि→त्तिसमर्थस्य प्रविभक्तस्य द्रव्यस्य संसगै पुरुषसंस्कारिते भूयस्वम् । दृष्टो हि प्रकर्ष भूयस्खशब्दः। प्रकृष्टो यथा विषयो भूयानित्युच्यते। यथा पृथगर्थक्रियासमर्थानि पुरुषसंस्कारवशाद्विपौषधिमणिप्रभृतीनि द्रव्याणि निर्वः र्तन्ते, न सर्व सार्थम् । एवं पृथविषयग्रहणसमर्थानि घ्राणादीनि निर्वर्तन्ते न सर्व विषयग्रहणसमर्थानीति। भूयस्खं हि शरीरारम्भाय भूतैः पञ्चभिः इन्द्रियाण्यारभ्यन्ते तेषां भूतानामेकैकस्य भूतस्य भूयस्त्वात् तव्यवस्थान नियतविषयग्रहणव्यवस्थानं भूम्यधिकपञ्चभूतारब्धं घ्राणं भूमिगुणेन शेषगुणाभिभवाद गन्धमेव गृह्णाति, एवमेवाधिकपञ्चभूतारब्धरसनमवगुणेनाधिकेन शेषगुणपरिभवाद् रसमेव गृह्णाति नान्यमर्थम्। तथा तेजोऽधिकपञ्चभूतारब्धं For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy