SearchBrowseAboutContactDonate
Page Preview
Page 611
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७८८ चरक-संहिता। कतिधापुरुषीयं शारीरम् उदात्तादिशब्दविविधस्पर्शरूपरसविशेषाः कार्यगुणा जायन्ते। ततस्ते गुणा अपां चिह्नमेव । २। एवमुष्णतीक्ष्णसूक्ष्मलघुरुक्षविशदरूपगुणबहुलान्याग्नेयानि इत्यनेनोक्तास्तैजसद्रव्यारम्भे तेजसस्तीक्ष्णसूक्ष्मलघुरुक्षविशदगुणाः शेषभूतसंसर्गादभिव्यज्यन्ते, पाञ्चभौतिके तैजसे द्रव्ये ये प्रागनभिव्यक्तास्तेजस्यासन् । शब्दोष्णस्पशौ तु पूर्वभूतसंसर्गजौ, तत्र शब्दो नानाविधोऽभिव्यज्यते तथोष्णश्च। रूपञ्च नैसर्गिकं लोहितं पूर्वभूतसंसर्गजं श्वेतादिनानाविधं जायते। ततस्ते तेजसो लिङ्गम् । ३। तथा लघुशीतरुक्षखरविशदसूक्ष्मस्पर्शगुणबहुलानि वायव्यानीत्यनेनोक्ताः पाञ्चभौतिकवायव्यद्रव्यारम्भे वायोलघुशीतरुक्षखरविशदसूक्ष्माः षड़ गुणाः शेषभूत संसर्गादभिव्यज्यन्ते ये प्राग् अनभिव्यक्ता वायावासन्। स्पर्शस्तु नैसर्गिकः पूचभूतसंसर्गाच्छीतश्चलश्च जायते पुनविविध एव जायते। शब्दश्चाव्यक्तः पूव्र्वभूतसंसर्गजः पुनविविध एव जायते। ततस्ते गुणा वायोश्चिह्न मिति । ४ । एवं मृदुलघुमुक्ष्मश्लक्ष्णशब्दगुणबहुलान्यान्तरीक्ष्याणीत्यनेनोक्ताः पाञ्चभौतिकान्तरीक्ष्यद्रव्यारम्भेऽन्तरीक्षादेव मृदुल घुमक्ष्मश्लक्ष्णाः शेषभूतसंसर्गादभिव्यज्यन्ते ये प्रागनभिव्यक्ता अन्तरीक्ष आसन् । शब्दो नैसर्गिकः कार्यभूतो दशविध एव जायते इति, ततस्ते गुणा आकाशस्य चिह्नमिनि । ५। नैते गुणा इन्द्रियारम्भकेषु आत्मजखादिषु वर्तन्ते। न चैकैकाधिकपञ्चखाद्यारम्भेऽपीन्द्रियेषु नान्ये गुणाः संसर्गतोऽभिव्यज्यन्ते यथा प्रात्मकादिषु परस्परानुप्रवेशाभावात् । परस्परसंयोगात् तु परस्परानुग्रहाद् भूयसाल्पगुणावजयाच्च खादकैकगुणशब्दादिरेव श्रोत्रादिषु स्थूलरूपेण जायते। तस्मान्नान्ये गुणा इन्द्रियाणामा भवन्ति । के पुनरर्था इत्यत आह-अर्था इत्यादि। यथा पञ्चमहाभूतारब्धेष्विन्द्रियेषु पाञ्चभौतिकशब्दादयः सन्ति तथा पाञ्चभौतिकेषु द्रव्येष्वान्तरीक्ष्यवायव्यतैजसाप्यपार्थिवेषु ये शब्दादयः कार्यभूता विशेषास्तेऽर्था इन्द्रियाणां विषया गोचराश्च उच्यते न तु महाभूतस्था एकग्राद्यात्मकभूतस्था वा, इन्द्रियाणां तथाभावाभावात्। तस्मान्न ते शब्दादय इन्द्रियैर्ग्रहीतु शक्यन्ते। अत एव काय्यभूतशब्दादीनामिन्द्रियार्थत्वं न कारणभूतशब्दादीनां, तस्मादतीन्द्रियत्वं तेषाम् । अत एवोक्तम् रसनाथो रस इति पूर्वाध्याये, तथात्रेयभद्रकाप्यीये चयं पुनः पञ्चानामिन्द्रियार्थानां जिह्वावैषयिकं भावमाचक्षते इति । कणादेनापि शरीरस्थानां भूतानां लक्षणं भवन्तीति वाक्यार्थः। अर्थानाह-अर्था इत्यादि। अर्थशब्देन तु ये शवादयो विशेषास्ते स्थूलखादिरूपा एव ज्ञेयाः। तेन आकाशपरिणाम एव शब्दः, वातपरिणामः For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy