________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७४८
चरक-संहिता। कतिधापुरुषीयं शारीरम् अस्य मन्त्रस्यानुवाकः । यद वै तत्सुकृतं रसो वै सः। रसं हेवायं लब्ध्वानन्दी भवति ॥ उ सोऽकामयत बहु स्यां प्रजायेयेति, स तपोऽतप्यत । स तपस्तप्त्वेदं सन्वेमस.जत यदिदं किञ्च। नत् सृष्ट्वा तदेवानुमाविशत् तदनुप्रविश्य सञ्च त्यच्चाभवत् ॥ ( यदिदं किञ्च ) निरुक्तश्चानिरुक्तञ्च निलयनञ्चानिलयनञ्च विज्ञानश्चाविज्ञानश्च सत्यञ्च अनृतश्च। सत्यमभवत् । यदिदं किञ्च तत् सव्वं सत्यमित्याचक्षते ॥ इति। अस्य ब्राह्मणश्छान्दोग्योपनिषदि। तद् यथाअसदंवेदमग्र आसीत् तत् सदासीत् तत् सदभवदित्युक्त्वा चाब्रवीत्। सदंव सौम्येदमग्र आसीदकमेवाद्वितीयं तद्वैक आहुः ॥ असदेव सौम्येदमग्र आसीदेकमेवाद्वितीयं तस्मादसतः सज्जायतेति कुतस्तु खलु सौम्यैवं स्यात् ॥ इति होवाच कथमसतः सदजायतेति सत् त्वेव सौम्येदमग्र आसीदेकमेवाद्वितीयम् इति। तदैक्षत बहु स्यां प्रजायेयेति तत् तेजोऽस्जत तत् तेज ऐक्षत बहु स्यां प्रजायेयेति तदपोऽसृज्यत॥ तस्माद यत्र क च शोचति स्विद्यति च पुरुषस्तेजस एव तदध्यापो जायन्ते ॥ ता आप ऐक्षन्त बहु स्याम प्रजायेमहीति ता अन्नमसृजन्त ॥ तस्माद यत्र क च वर्षति तदेव भूयिष्ठमन्नं भवत्यद्भा एव तदध्यन्नाद्य जायते॥ सेयं देवतैक्षत हन्ताह मिमास्तिस्रो देवता अनेन जीवेन आत्मनानुप्रविश्य नामरूपे व्याकरवाणीति ॥ तासां त्रिसृतं त्रिवृतमेकैकां करवाणीति सेयं देवतेमास्तिस्रो देवता अनेन जीवेनात्मनानुपविश्य ॥ नामरूपे व्याकरोत् तासां त्रिवृतं त्रिवृतमेकैकामप्यकरोत् ॥ इति। अत्रासद्वा इदमग्र आसीत् ततो वै सदजायतेति यदुक्तं तत्रासत्पदेन सदेवोक्तं छान्दोग्योपनिषदि। तत्र प्रावादुका विप्रतिपद्यन्ते। असद्वा इदमित्यसत्पदेनासदेव शून्यमेव तस्मादसतः सज्जायतेति कथमसत्पदेन सदुच्यते इति। तत्र सिद्धान्त उक्तश्छान्दोग्योपनिषदि। कुतस्तु खलु सौम्यैवं स्यात्। कथमसतः शून्यतः खल्ववस्तुतः सद्वस्तु जायेतेति। न हि खपुष्पात् फलं जायते इति । एतच्च कपिलेन साङ्खो परीक्षितम् । तद् यथा। शुन्यं तत्वं भावो विनश्यति । विनाशस्य वस्तुधर्मखादिति, तदपवादमात्रमबुद्धानाम्। असद वै शून्यं तत्त्वं यथार्थ न तु सत् । स हि भावो विनश्यति विनाशस्य वस्तुधर्मसात् । तस्मात् अवस्तु खल्वसत् तन्न विनश्यति न हि ब्रह्म विनाशीति यदुच्यते तदबुद्धानामपवादमात्रमिति । तत्राहुः प्रावादुकाः। उभयपक्षसमानक्षेमवादयमपीति । सत् शरीरे शेते इति व्युत्पत्त्या य आत्मा पुरुषशब्ढे नोच्यते, तमाह-चेतनेत्यादि। अत्र पुरुषः इति कर्त्तव्ये यत् पुरुषसंज्ञकः इति करोति, तेन चेतनाधातुरूपः पुरुषश्चिकित्सायामनभितः,
For Private and Personal Use Only