SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दम अध्यायः . विमानस्थानम् । १७३१ हंसपादी काकनासिका कुलिङ्गानी चोरवल्ली कपोतवल्ली गोपवल्ली मधुवल्ली सोमवल्ली चेति । एषामेवंविधानाञ्चान्येषां मधुरवर्गपरिसंख्यातानामौषधद्रव्याणां छेद्यानि खण्डशश्छेदयित्वा भेद्यानि चाणुशो भेदयित्वा प्रक्षाल्य पानीयेन सुप्रक्षालितायां स्थाल्यां समावाप्य पयसाझेदकेनाभ्यासच्य साधयेद दा सततमवघट्टयेत्। तदुपयुक्तं भूयिष्ऽम्भसि गतरसेष्वौषधेषु पयसि चानुपदग्धे स्थालीमपहृत्य परिचुतं पूतं पयः सुखोष्णं घृततैलवसामजलवणफाणितोपहितं वस्तिं वातविकारिणे विधिज्ञो विधिवद् दद्यात्। सुशीतन्तु मधुसर्पिामुपसंस्कृत्य पित्तविकारिणे दद्यात् । इति मधुरस्कन्धः ॥ ११७॥ वनकार्पासी। वनत्रपुषी वन्यस्वल्पत्रपुषः। अभीरुपत्री स्वल्पशतावरी । हंसपादी थुलकुड़ी। काकनासा के उठुटी। कुलिङ्गाक्षी पेटिका। क्षीरवल्ली क्षीरलता। कपोतवल्ली सूक्षला। गोपवल्ल अनन्तमूलम्। मधुवल्ली यष्टीमधभेदः। सोमवल्ली सोमलता। एपामेवं विधानामन्येषाञ्च मधुरवगेपरिसंख्यातानाम् आस्थापनस्यौपधस्य द्रण्याणां मध्ये यानि च्छद्यानि च्छेत्तमहा॑णि तानि खण्डशश्छेदयित्वा। भेद्यानि यानि च भेत्तुमर्हाणि तानि अणुशो भेदयिखा पानीयेन प्रक्षाल्याद्धोदकेन पयसाष्टगुणेन काथवादासिच्य साधयेत् पचेत् । गतरसेषु औषधेषु-चतुर्भागावशिष्टे तु द्रव्यं गतरसं भवेत् इति चतुर्थावशेष पयसि गतजलदुग्धे चानुपदग्धे तदुपयुक्त स्थालीमपहृत्य सुपरिस्र तं वस्त्रेण पूतं तत् मुखोष्णं पयो दुग्धं घृतादिभिरनुरूपैरुपहितं वस्तिं वस्तिमध्ये पूरयिखा वातविकारिणे दद्यात् । सुशीतन्तु तद् दुग्धं घृतादुरपहितं न कृता मधुसपिभ्या॑मुपसंस्कृत्य पित्तविकारिणे वस्तिं दद्यात् । इति मधुरस्कन्ध आस्थापनवस्तिः॥११७ प्रोक्ता बलाभेदः। द्वारदा शाकतरुः। भारद्वाजी वनकार्पासी। वनत्रपुषी वृहत्फला गोडुम्बा । अभीरुपत्री शतावरीभेदः। कुलिङ्गाक्षी पेटिका, कुलिङ्गापाठपक्षे उच्चटा। क्षीरवल्ली क्षीरलता। कपोलवल्ली कवड़झेजु इति ख्याता। कपोतवल्ली सूक्ष्मैला। सोमवल्ली सोमलता। गोपवल्ली अनन्तमूलम्। मधुवल्ली यष्टीमधुभेदः ॥ ११७ ॥ ४. कपोलवल्लीत्यधिकः पाठः क्वचिट। For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy