SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७२८ चरक-संहिता। (रोगभिषगजितीयं विमानम् रससंसर्गसमवायविकल्पविस्तरो ह्यषामपरिसङ्घा यः, समवेतानां रसानामंशांशबलविकल्पातिबहत्वात् । तस्माद् द्रव्याणाञ्चैकदेशसमुदाहरणार्थं रसेष्वनुविभज्य रसैकैकत्वेन च नामलक्षणार्थषड़ास्थापनस्कन्धा रसतोऽनुविभज्य व्याख्यास्यन्ते।यतः आह-तत्रैवेत्यादि। तत्र नामतो विस्तरोपदेशे इष्टं केवलं कृत्स्नं ज्ञानमास्थापनीययोगिकद्रव्यज्ञानम्, तदेवानतिसंक्षेपविस्तरोपदेशेनापि यथा भवति तथोपदेशे का हानिः इत्यभिप्रेत्याह- तम्मादित्यादि। नामतो विस्तरोपदेशेऽतिबहुत्वेनास्थापन-द्रव्याणामपरिसंख्येयतयातिविस्तरोपदेशस्यानभीष्टलाद्रसत एव तदतिविस्तरोपदेशफलकृतस्नास्थापनद्रव्यज्ञानजनकरसोपदेशादेव तानि आस्थापने यौगिकानि कृत्स्नानि द्रव्याण्यनुव्याख्यास्यामः ॥११६ ॥ ___ गङ्गाधरः-रससंसर्गसमवायेत्यादि। तत्रापि हि यस्मात् तेषां द्रव्याणां रससंसर्गसमवायविकल्पविस्तरोऽपरिसंवय यः समवेतानां संसृष्टानां रसानाम् अंशांशानां हीनहीनतरहीनतममध्यमध्यतरमध्यतमाधिकाधिकतराधिकतमादत्रशतो बलविकल्पेनातिबहुखात्। तस्मात् रससंसर्गसमवायविकल्पविस्तरस्याप्यपरिसंझे प्रयवाद् द्रव्याणाञ्चैकदेशसमुदाहरणार्थ यौगिकास्थापनीयकृत्स्नद्रव्याणां ज्ञानजनककतिचिद्रव्योदाहरणार्थं रसेषु मधुरादिषु षट्स्वनुविभज्य अनुरसं विभज्य रसैकैकत्वेन प्रधानतमैकेन रसेन नामलक्षणार्थ नामार्थ लक्षणार्थश्च पड़ास्थापनस्कन्धा रसत आस्थापनस्य वृक्षस्येव स्कन्धा वृहच्छाखाः पडसास्ततस्तेभ्योऽनुविभज्य व्याख्यास्यन्तेऽर्थात् आस्थापनोपयोगीनि इत्यर्थः। तस्मादसत एवेति रसं प्राधान्येनोद्दिश्य रसाश्रयद्रव्यस्यानतिसंक्षेपविस्तारापदेशेन इत्यर्थः । तानीत्यास्थापनोपयोगीनि द्रव्याणि। अत्र च रसद्वारा निर्देशेऽपि रससंसर्गस्यातिबहुत्वेन च कृत्स्नद्रव्यनिर्देशवद रससंक्षेपता स्यादिति कृत्वा षडभी रसैनिर्देशः कर्तव्यः ॥ ११६ ॥ चक्रपाणिः-आस्थापनोपयोगीनि च्याणि दर्शयन्नाह--रसेत्यादि । उदाहरणार्थमिति मधुरादिरसस्याधारभूतस्य द्रव्यस्योदाहरणार्थम्, रसेप्वनुविभज्येति रसेपु मधुरादिषु द्रव्याणामेकदेशमाधारतयोपदिश्येत्यर्थः। रसकैवल्येनेति रससंसर्गत्वेन। नामलक्षणार्थ षड़ास्थापनस्कन्धा इति साक्षादुक्तानां जीवकादीनां नामार्थम्, तथा अनूक्तानां मधुरादिद्व्याणां तज्जातीयत्वेन लक्षणे. नास्थापनयोगिद्रव्यसमूहा व्याख्यास्यन्त इति । किंवा नामलक्षणार्थमिति नामज्ञानार्थम् । समूहरसतोऽनुविभज्येति अनुक्तञ्च मधुरादिरसतया निहिश्येत्यर्थः । * रस कैवल्येन इति चक्रसम्मतः पाठः । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy