SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८म अध्यायः विमानस्थानम् । १७२१ विशेषावेक्षणं यथावभेषजप्रयोगार्थम्। न ह्यतिपतितकालमप्राप्तकालं वौषधमुपयुज्यमानं यौगिकं भवति। कालो हि भैषज्यप्रयोगपर्याप्तिमभिनिवर्त्तयत्येव ॥ ११०॥ प्रवृत्तिस्तु प्रतिकर्मसमारम्भः। तस्य लक्षणं भिषगौषधातुरपरिचारकाणां क्रियासमायोगः ॥ १११ ॥ मुहुर्मुहुरित्यादि स्पष्टम् । कुत आतुरस्य सर्वावस्थावेक्षणं यथावदभेषजप्रयोगार्थम् । मुहुर्मुहुः कार्य तदवेक्षणं विनापि किं भेषजप्रयोगो यथावन्न युज्यते इत्यत आह-न ह्यतीत्यादि। अतिपतितकालमतीतकालमप्राप्तकालं वा भेषजमुपयुज्यमानं न यस्माद यौगिक सम्यग् योगाय भवति परन्तु कालात्ययेऽप्राप्तकाले वा उपयोगाभेषजमयोगातियोगमिथ्यायोगेभ्यो भवतीति भावः । ननु कस्मात् कालात्ययेऽप्राप्तकाले वाप्युपयुज्यमानं भेषजं न योगिकं भवतीत्यत आह-कालो हीत्यादि। भैषज्येत्युपलक्षणमायुर्वेदशास्त्रखात् तेन सर्वेषामपि प्रयोगस्य पर्याप्तिं सर्वतोभावेनाप्तिं योगमभिनिव्वत्तेयति जनयति युक्त्या भूतानां परिणामकारणवादित्युन्नेयम् । इति कालपरीक्षा दर्शिता ॥११॥ __गङ्गाधरः-अथ कारणादिषु दशसु परीक्ष्यविशेषेषु कालावन्तर्यात् परीक्ष्यविशेषः प्रदश्यते। प्रवृत्तियेथा परीक्षितव्या तथा दर्शयति-प्रवृत्तिस्वित्यादि । प्रतिकर्मणो व्याधिप्रतिकारस्य लङ्घनादुरपक्रमादेः समारम्भः सम्यक् वाङ्मनःशरीराणां प्रवृत्तिभिरुपक्रमः। तस्य विज्ञानार्थमाह-तस्य लक्षणमित्यादि। भिषगादीनां चतुणां पादानां क्रियाणां समायोगः समवायः । भिषगाद्यन्यतमक्रियायोगाभावे प्रवृत्तिहानिः इत्यवगम्यते चतुष्पादोपादानेन। इत्युक्तं यथा परीक्ष्यविशेषः प्रत्तिः परीक्षितव्या तत् ॥१११ ॥ मेलकः कालः स्यात्, तथा, संयोगविकल्पश्च कर्तव्यः, यथा विरुद्ध वीर्यभेषजमेलकः कालः स्यादिति दर्शयन्नाह-प्रमाणवीर्यसमं कृत्वेति। आतुरावस्थालक्षणकालमाह- आतुरेत्यादि । तम्रोदाहरणम् - नवज्वरे न कपायकालः, अतिकान्तषड़हे च कपायकाल इत्यादि। भैषज्यप्रयोगपर्याप्तिमिति भेषजप्रयोगसाध्यसिद्धिमित्यर्थः ॥ १०६-११०॥ चक्रपाणिः-कालमभिधाय क्रमेण प्राप्तां प्रवृत्तिमाह-प्रवृत्तिस्त्वित्यादि। प्रतिकम्म चिकित्सा ॥ १११॥ For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy