________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२३० चरक-संहिता।
. ज्वरनिदानम् प्राधान्यं पुनर्दोषाणां तरतमाभ्यामुपलभ्यते तत्र द्वयोस्तरस्त्रिषु तमः।
विधिर्नाम द्विविधा व्याधयो निजागन्तुभेदेन त्रिविधास्त्रिदोषभेदेन चतुर्विधाः साध्यासाध्यमृदुदारुणभेदेन पृथक् । नानेकतया जायत इति, तथापि स भावः सर्व एव कतिधा जायत इति । तत् सामान्यस्य संखयाज्ञानार्थ संखयोपदेशः। ___प्राधान्यमित्यादि। व्याध्यारभ्भे खल्वेकको दोषश्चेवाधिमारभते तत्र प्राधान्यं न सम्भवति । प्राधान्यं हि सापेक्षम् । यश्च व्याधि द्वौ वा त्रयो वा दोषा आरभन्ते तत्र प्राधान्यमेकमपेक्ष्यापरस्य भवति । तत्र द्वयोस्तरः । द्वयोमध्ये यस्तर उत्कृष्टः अधिकलिङ्गस्तस्य प्राधान्यम् । त्रिषु तम इति त्रिषु दोषेषु मध्ये यस्तम उत्कृष्टोऽधिकलिङ्गस्तस्य प्राधान्यम् । लिङ्गतारतम्याभ्यां प्राधान्यं दोषयोदोषाणां विज्ञायते।
विधिस्तु प्रकारः । संख्या भेदमात्रम् । सजातीयविजातीयेषु पञ्च ब्राह्मणाः पञ्च ब्राह्मणक्षत्रियाः। प्रकारस्तु सजातीयेषु भिन्नषु धर्मान्तरेण उपपत्तिः । निजः शारीरदोषजखेन धर्मेणकप्रकारः। आगन्तुकरणजवेन धम्मेण अपरप्रकारः। इति तत्तद्धर्म ज्ञापयति विधिः। तस्य प्रयोजनं यथोद्ध गवधर्मक रक्तपित्तं नोहरणसाध्यं किन्त्वधोहरणसाध्यमधोगधर्मकमूद्ध हरणसाचं नाधोहरणसाध्यमिति । एष विधिर्येन नोक्तस्तस्य भ्रमः । नोदाहरति ; यतः द्विविधं हि रक्तपित्तस्य विधिभेदे प्रविशति, न द्विविधं संख्यायाम्, 'द्विविधं शोणितपित्तम्' इति विधिशब्देनैवोक्तत्वात् । __ प्राधान्यं पुनरित्यादौ तरतमाभ्यामिति 'तरतम'शब्दाभिधेयाभ्यां वृद्धिभ्याम् ; तरतमशब्दयोर्विषयं विभजते-द्वयोरित्यादि। 'द्वयोस्तरः' इति द्वयोर्दोषयोवृद्धयोः 'तर' प्रयोगो भवति, 'वृद्धतरः' इति ; एवं त्रिषु तमः' इति त्रिषु दोषेषु वृद्धेषु सतमु 'तम'प्रयोगो भवति । तदेवं द्वन्द्वारब्धे विकारेऽन्यतरदोषस्य 'तर'शब्दलक्षितेन प्राधान्येन सम्प्राप्तिः भिद्यते ; तथा त्रिदोषारब्धे विकारे 'तम'शब्दलक्षितान्यतमदोषप्राधान्यात् सम्प्राप्तिर्भिद्यते इत्युक्त भवति।
सम्प्राप्तिभेदक क्रमागतं विधिमाह-विधिर्नामेत्यादि। द्विविधा व्याधयो निजागन्तुभेदेन' इत्यादिना विधिरिति कृतमित्यर्थः; ते द्विविधत्वादयो भेदा यतो भवन्ति, स विधिः ; विधिश्च प्रकारो भेद इत्यर्थः ; साध्यासाध्यमृदुदारुणभेदेनेति साध्यासाध्यगतेन
For Private and Personal Use Only