SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हम अध्यायः विमानस्थानम् । १७०१ स्मृतिमन्तो भक्तिमन्तः कृतज्ञाः प्राज्ञाः शुचयो महोत्साहा दक्षा धीराः समरविक्रान्तयोधिनस्त्यक्तविषादाःसुव्यवस्थितगतिगम्भीरबुद्धिचेष्टाः कल्पनाभिनिवेशिनश्च ॐ सत्त्वसाराः, तेषां स्खलक्षणेर्गणा व्याख्याताः॥१४॥ तत्र सवैः सारैरुपेताः पुरुषा भवन्त्यतिबलाः परमसुखयुक्ताः क्लेशसहाः सारम्भेष्वात्मनि जातप्रत्ययाः कल्याणाभिनिवेशिनः स्थिरसमाहितशरीराः सुसमाहितगतयः सानुनादस्निग्धगम्भीरमहानिस्वनाः सुखैश्वय्यवित्तोपभोगसम्मानभाजो मन्दजरसो मन्दविकाराः प्रायस्तुल्यगुणविस्तीर्णापत्याश्चिरजीविनश्च ॥ ५ ॥ गङ्गाधरः-स्मृतिमन्त इत्यादि। समरविक्रान्तयोधिनः समरे मल्लयुद्धे वा शस्त्रास्त्रयुद्धे वा वाग्युद्धे वा व्यवहारयुद्धे वा विक्रान्ताः सन्तो योद्ध' शीलं येषां ते तथा। सुव्यवस्थिता गतिर्गम्भीरा बुद्धिश्चेष्टा च येषां ते सुव्यवस्थितगतिगम्भीरबुद्धिचेष्टाः। कल्पनाभिनिवेशिनः कल्पनायां क्लृप्तीकरणेऽभिनिवेशशीलाः। तेषां स्वलक्षणैः स्मृतिमत्तादिभिगुणाः कर्माणि व्याख्याताः। स्मृतिमत्तादिकार्याणि स्मृत्यादीनि भवन्तीत्यर्थः ॥ ९४॥ गङ्गाधरः-एतैः सारैर्बलभेदान् दर्शयति-तत्रेत्यादि। सारम्भेष सासु क्रियासु समर्थवेनात्मनि प्रत्ययशालिनः। कल्याणे शुभेऽभिनिवेशिनः । स्थिरं समाहितं संहतं शरीरं येषां ते तथा। सुसमाहितगतयः सुष्ठ समाहिता गतिर्येषां ते तथा। सानुनादस्निग्धगम्भीरमहानिस्वनाः अनुनादेन सह वर्तमानः स्निग्धो गम्भीरश्च महान् निस्खनो येषां ते तथा, प्रतिध्वनिजनकस्निग्धगम्भीरमहानादा इत्यर्थः। मन्दा अल्पा जरा येषां ते तथा। मन्दविकारा अल्परोगवन्तः। प्रायस्तुल्यगुणा विस्तीर्णा येषां तान्यपत्यानि येषां ते तथा॥९५॥ स्त्रीप्रिय उपभोगः संभोगो येषां ते तथा। समरे विक्रम्य योधयन्तीति समरविक्रान्तयोधिनः । अवस्थिता इति परिस्थिताः। तुल्यगुणविस्तीर्णापत्या इति जनितात्मसदृशापत्याः। प्रायः. • कल्याणाभिनिवेशिनश्च इति पाठान्तरम् । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy