SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८ अध्यायः विमानस्थानम् । १६६६ सारतश्चेति । साराण्यष्टौ पुरुषाणां वलमानविशेषज्ञानार्थम् उपदिश्यन्ते त्वगरक्तमांसमेदोऽस्थिमज्जशुक्रसत्त्वानीति। तत्र स्निग्धश्लक्ष्णमृदुप्रसन्नसूक्ष्माल्पगम्भीरसुकुमारलोमा सप्रभेव च त्वक त्वकसाराणाम् । सा सारता सुखसौभाग्यश्वर्योपभोगबुद्धिविद्यारो-यप्रहर्षणान्यायुश्चानित्वरमाचष्टे ॥७॥ ___कर्णानिमुख-जिह्वानासौष्ठपाणिपादतल-नख-ललाट-मेहनं स्निग्धरक्तवर्णं श्रीमद् भ्राजिष्णु रक्तसाराणाम्। सा सारता सुखमुद्धतां मेधां मनस्वित्वं सौकुमार्यमनतिबलमुष्णासहिष्णुतां चाचष्टे ॥८॥ शङ्खललाटकृकाटिकानिगण्डहनुग्रीवास्कन्धोदर-कक्ष-वक्षःपाणिपादसन्धयस्तु स्थिरगुस्शुभमांसोपचिता मांससाराणाम् । सा सारता नमां धृतिमलौल्यं वित्तं विद्यां सुखमाजवं बलमारोग्यमायुश्च दीर्घमाचष्टे ॥ ८ ॥ गङ्गाधरः-सारतः परीक्षामाह-सारतश्चेत्यादि। सत्त्वं मनः, न तु सत्त्वगुणः तदाश्रयखात्। तत्रेत्यादि स्पष्टम्। सा सारतेत्यादि स्पष्टाथम् । आयुवानिवरम् अगवरमायुश्चाचष्टे व्यनक्ति ॥८७॥ गङ्गाधरः-रक्तसाराणां पुसां स्निग्धरक्तं श्रीमद् भ्राजिष्णु च कर्णादिकम्। उद्धतां विपुलां मेधाम्। अनतिवलं मध्यबलम् ॥ ८८॥ - गङ्गाधरः--शङ्खो ललाटैकदेशः, ललाटो ललाटस्य मध्यमदेशः। कृकाटिका घाटा। एते शङ्खादयः स्थिरा गुरवश्व शुभाश्च मांसोपचिताश्च भवन्ति । बलं दीर्घम् अतुलम्, आयुश्च दीर्घम् ।। ८९ ॥ मूयांसि च। अन्यतमसामान्यादिति दोषादीनां सामान्य केनचित् केनचिदसामान्ये सति इत्यर्थः ॥ ८५८६॥ चक्रपाणिः ---सारतश्चेत्यादौ सारशब्देन विशुद्धनरो धातुरुच्यते। सप्रभेति प्रभायुक्ता । त्वकसाराणामिति च्छेदः। तथेयं सारता किं करोतीत्याह--सा सारतेत्यादि । एवमन्यत्रापि सारतेति व्याख्यातव्यम् ॥ ८७ ॥ For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy