________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६६६
चरक संहिता । | रोगभिषग्जितीयं विमानम्
पित्तमुष्णं तीक्ष्णं द्रुतं विभ्रमम्लं कटुकञ्च । तस्योष्यात् पित्तला भवन्त्युष्णा सहाः, शुष्कसुकुमारावदातगात्राः, प्रभूतपिप्लुव्यङ्गतिलकपिडकाः, क्षुत्पिपासावन्तः चिप्रबलिपलितखालित्यदोषाः, प्रायो मृदुकपिलाल्पश्मश्रुलोमकेशाः ; तैच्ण्यात् तीक्ष्णपराक्रमास्तीक्ष्णाग्नयः प्रभूताशनपानाः क्लेशा सहिष्णवः दन्दशूकाः ; द्रवत्वाच्छिथिलमृदुसन्धिबन्धमांसाः प्रभूतसृष्टस्वेदमूत्रपुरीषाः ; विस्रत्वात् प्रभूतपूति- कक्षास्यशिरः शरीरगन्धाः ; कटुम्लत्वादल्पशुक्र व्यवायापत्याः । त एवंगुणयोगात् पित्तला मध्यबला मध्यायुषो मध्यज्ञानविज्ञानवित्तोपकरणवन्तश्च भवन्ति ॥ ८३ ॥
ओजस्विन इति ओजो बलहेतुधातुविशेषस्तद्वन्तः | आयुष्मन्त इति दीर्घायुष्मन्तः, एतेनायुः प्रमाणज्ञानहेतोरातुरपरीक्षायामातुरस्य बलदोषप्रमाणज्ञानेषु प्रकृतितः परीक्षापेक्षत्वात् पूर्व बलदोषममाणज्ञानहेतोरातुरपरीक्षा उच्यते इति ज्ञापितम् ।। ८२ ।।
गङ्गाधरः - पित्तप्रकृतिकानां लक्षणार्थमाह- पित्तमित्यादि । तं द्रवम्, विस्रमामगन्धि । तस्येति पित्तस्य, उष्णासहाः उष्णं सोढुमशक्ताः, शुष्कसुकुमारावदातगात्राः शुष्कं निःस्नेहमथच सुकुमारमवदातञ्च निर्मलं गात्रं येषां ते तथा । प्रभूतपिप्लुव्यङ्गतिलकपिडकाः प्रभूता बहुलाः मुखव्यङ्गाः पिप्लवः शरीरदेशे व्यङ्गास्तिलकास्तिलकालका पिड़काश्च येषां ते तथा । क्षुत्पिपासावन्तः अधिकक्षुत्तृष्णावन्तः । तैक्ष्ण्यादित्यादि स्पष्टम् । द्रबखाद् इत्यादि च स्पष्टम् । विस्रत्वादित्यादि । प्रभूतपूतयो दुष्टाः कक्षादीनां गन्धा येषां ते तथा । कलवादित्यादि स्पष्टम् । त एवमित्यादि मध्यानि ज्ञानं शास्त्रज्ञानं विज्ञानं तदर्थेनिश्चयः वित्तं धनम् उपकरणं दोलाश्वगजादि, तानि सन्ति येषां तेषाम् ॥ ८३ ॥
चक्रपाणिः - दंदशूकाः पुनः पुनर्भक्षणशीलाः ; प्रभूताशनस्तु बहुभक्षणत्वेन । पूतिर्वक्ष:* प्रभूतपूतिवक्षःकक्षेत्यादि पाठः चक्रसम्मतः ।
For Private and Personal Use Only