SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२२८ चरक-संहिता। । ज्वरनिदानम् जन्यर्थस्वरूपो वाह्यभावः तिचप्रत्ययार्थः। स च सत्तानुकूलव्यापारस्वरूपः। सदिति । यतः स सत्ता सद्भावः प्रकृतिभूतकारणानां रूपान्तरेण अभिनिष्पन्नानामनुत्तिहेतुः। उत्पन्नो येनोत्तरकालं वत्तेते स स्वकारणसमवाय एव सत्ता। सा द्विधा सामान्यं विशेषश्च। आरम्भकद्रव्याणां खस्त्रक्रियाजन्यपुनःपुनःसंयोगविभागाभ्यां विक्रियमाणानां रूपान्तरेण समानप्रसवात्मिका सत्ता सामान्यं जातिरित्युच्यते। यथा ब्राह्मणानां निखिलानां समान एव प्रसवः। असमानप्रसवात्मिका सत्ता प्रत्येकशो जातिः जन्मविशेष उच्यते। यथा ब्राह्मणानामेकैकस्य प्रसवोऽसमानः, उक्तश्च जातिः सामान्यजन्मनोरिति। तत्रेदं सामान्यजातिलक्षणम्, विशेषजातिस्तु प्रतिरोगं वक्ष्यते। उत्पन्नानां भावानां समवायिकारणसमवायो यावन्तं कालं वर्तते तावन्तं कालं तेपामुत्पत्तेरनु पश्चादबत्तिरित्यनुटत्तेहेतुः समवायः सत्तोच्यते। तस्याश्च सत्ताया अनुकूलव्यापारः प्रकृतिभूतद्रव्याणां स्वस्व क्रियाभिः परस्परं पुनःपुनःसंयोगविभागौ जनयिखा निष्पाद्यते तत्तत्कार्याणां स्वरूपनिष्पत्तौ सर्वावयवसमवाय इति । शारीरव्याधुात्पत्तौ तु खकारणैः दुष्टानां दोषाणां दुष्टिबहुधा, संग्रहेण द्विधा प्राकृती वैकृती च । प्राकृती यथा खलक्षणर्तुकसंवत्सराहोरात्रभुक्तांशकालकृतचयप्रकोपौ। वैकृती दुष्टिः पुनः ऋतूनां यथास्वलक्षणहीनातिविपय्ययेण या दृष्टिनिदानसेवाभिश्च। सा च द्विधा दुष्टिरेकशी द्विशः सर्चश्च। दृद्धौ क्षये च। रजस्तमसोश्चैवं दुष्टिरकशो द्विशश्च। तत्र शारीरदोपाणां सांसगिकी दुष्टिद्विधा प्रकृतिसमविषमसमवायाभ्यां भवति । तत्र समसमवायात् षट्पञ्चाशत्, एकशः पडिति, वृद्धिक्षययोःषष्टिधा। विषपसमवायात् तु नियमो नास्ति। एवं दुष्टौ स्वभावाद् यस्मिन् व्याधौ यावती दुष्टिस्तावती नानुत्पन्नस्य व्याधेलक्षणं भवतीति कृत्वा उत्पत्तेाध्युपलम्भकत्वं वर्णयन्ति। एतच्चान्ये न मन्यन्ते । यतः- सति सम्प्राप्तितः कश्चिद् विशेषो व्याधेरधिगम्यते ; न चायं नियमःयदरपन्न एव परं व्याधिरुपलभ्यते । यतः निदानपूर्वरूपाभ्यामनुत्पन्नो व्याधि वित्वेन बुध्यते । तस्मादव्याधिजनकदोषव्यापारविशेषयुक्त व्याधिजन्मेह सम्प्राप्तिः । पर्याये 'आगतिः' इत्युक्तम् । आगतिहिं उत्पादकारणस्य व्याधिजननपर्यन्तं गमनम्। इयञ्च सम्प्राप्तिाधिविशेषं बोधयत्येव, यथा-ज्वरे-“स यदा प्रकुपितः प्रविश्यामाशयम्” इत्यारभ्य “तदा ज्वरमभिनिवर्तयति” इत्यन्तेन या सम्प्राप्तिरुच्यते तथा ज्वरस्यामाशयदूषकत्वमग्न्युपघातकरसदूषकरवादयो धर्माः प्रतीयन्ते। न च वाच्यम्-दोषाणामयमामाशयदूषकत्वादिधर्मः, ततश्च कारण. For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy