SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हम अध्यायः विमानस्थानम्। १६८५ भिषजो धातुसाम्याभिनिवृत्तौ प्रयतमानस्य विशेषतश्चोषायान्तेभ्यः । तद् द्विविधं व्यपाश्रयभेदात्, दैवव्यपाश्रयं युक्तिव्यपाश्रयञ्चेति। तत्र देवव्यपाश्रयं मन्त्रौषधिमणिमङ्गलबल्युपहारहोमनियमप्रायश्चित्तोपवासदानस्वस्त्ययनप्रणिपातगमनादि । युक्तिव्यपाश्रयं संशोधनोपशमने चेष्टाश्च दृष्टफलाः। एतच्चैव भेषजमङ्गभेदादपि द्विविधमेव भवति, अद्रव्यभूतं द्रव्यभूतं युक्तं पोडशगुणं चतुष्पादं भेषजमिति यदुक्तं तत् । भिषजः कतृ बेन पृथगुक्तावपि स्वस्य सामर्थ्यासामर्थ्याभ्यामनुपकरणखात् । ननु योन्यादिभ्यो भेदाच यभिषजः कार्याभिनित्तौ प्रयतमानस्योपकरणायोपकल्प्यते तद् भेषजं नामेति कारणादीनां सौष्ठवं सम्यगभिसन्धानञ्चेति भिषज उपकरणायोपकल्प्यते तेनोपायान्ता अपि करणं भवखिति मनसि कृखाह-विशेषतश्चेत्यादि। उपायान्तेभ्यो विशेषतश्च । उपायान्तेभ्योऽष्टभ्यः कार्यकत्तु यदुपकरणायोपपद्यते तत् पुनभेषजं करणमभिधीयते। कार्ययोनिहि काय्यत्वेनाभिनित्तते, तेन कार्याभिनित्ताविति कार्यपदेन व्यवच्छिद्यते। कार्यफलमपि च कार्यमेव कार्यानुवन्धश्व कार्यजन्यः शुभाशुभरूपः कार्यान्तर एवेति। तदभेषजं विभजते--तदित्यादि स्फुटम् चेष्टाश्च दृष्टफला इत्यनेनादृष्टफलं चेष्टा दैवव्यपाश्रयरूपा। एतच्चैवेत्यादि। एतच्छन्दैन संशोधनोपशमनचेष्टानां परामर्शवारणायाह-भेषजमिति । तेन एतदैवयुक्तिव्यपाश्रयं द्विविधं भेषजमङ्गभेदादपि द्विविधमेव। तद्विटणोति-अद्रव्यभूतमित्यादि। सूचीकटाहन्यायेनाल्पलात् कत्तुंरुपकरणं भवतीति तत् करणम् इति दर्शयति । कार्ययोनिर्हि लोके विचार्य कर्मतया साधकतमात् करणात् पृथगुच्यते। प्रवृत्त्युपाययोश्च कर्तृ करणादिधर्मत्वेन न करणसंज्ञा। देशकालौ तु न साधकतमौ। तेन उपायान्तेभ्यो यथोक्तविशेषेण यत् कर्तुं रुपकरणं भवति, तत् करणम् । अत्र व्यपाश्रय विध्ये च सत्वावजयोऽपि भेषजमवरुद्धं ज्ञेयम् - सत्वावजयो हि इष्टद्वारोपकारी युक्तिव्यपाश्रये, तथा अदृष्टद्वारोपकारी तु दैवव्यपाश्रये प्रविशति । अत एवोक्तं युक्तिव्यपाश्रयव्याकरणे-“चेष्टाश्च दृष्टफलाः” इति। चेष्टाशब्देन मनश्चेष्टापि सत्त्वावजयलक्षणा गृह्यते। पुनरौषधस्य प्रकारान्तरद्वविध्यमाह-अङ्गभेदादित्यादि। अझं शरीररूपं स्वरूपमिति यावत् । तेन स्वरूपभेदादित्यर्थः । द्रव्यभूतं द्रव्यरूपम्, एवमद्रव्यरूपम् । उपायाभि For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy