SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८म अध्यायः विमानस्थानम् । १६८१ तदिह भिषगादिषु संसायं सन्दर्शयिष्यामः। इह कार्यप्राप्ती कारणं भिषक, करणं पुनर्भेषजं, कार्ययोनिर्धातुवैषम्यम्, कार्य धातुसाम्यम्, कार्यफलं सुखावाप्तिः,अनुबन्धस्तु खल्वायुः, देशो वा परीक्षा। इति कतिविधा परीक्षेत्यस्य प्रश्नस्योत्तरम् । ०। कतिविधं परीक्ष्यमिति प्रश्नस्योत्तरमाह-दशविधन्तु परीक्ष्यमिति । वमनादिकं प्रयोक्तकामस्य दशविध परीक्ष्यं न तु जगति दशविधमेवेति। ननु चिकित्सायां किं किं तद्दशविधं परीक्ष्यमित्यतस्तत्तद् दर्शयितुमाह-कारणादीत्यादि। कारणकरणकार्ययोनिकार्यकार्यफलानुवन्धदेशकालप्रवृत्त्युपाया इति दशकं यदने उक्तं जगति सावंशास्त्रिककार्यारम्भेऽभिहितं तद् दविधं परीक्ष्यम् । ननु तद् दशविधमायुर्वेद चिकित्सायां किंवा किं भवतीत्याकाङ्क्षायामाहतदिहेत्यादि। तत् कारणादिदशकं इहायुव्वेदशास्त्रे चिकित्सासमारम्भे भिषगादिषु संसायं संसरणं कृता सन्दर्शयिष्यामः। इहेत्यादि। इहायुवेंदशास्त्र कार्यप्राप्तौ चिकित्स्यप्राप्ती कारणं चिकित्साकर्ता भिषक, करणं पुनर्भेषजमिति युक्तियुक्तं गुणवच्चतुष्पादं भेषजं यद्यप्युक्तं तथाप्यत्र भिषजः कारणत्वेन पृथगुक्त्या भिषगितरद द्रव्यातुरोपस्थातार इति गुणवत् त्रिपादम् । कार्ययोनिरिह धातुवैषम्यम्, ज्वरादीनां कार्याणां योनिखात्। वातादिधातुवैषम्यं हि कार्यत्वं ज्वरादित्वमापद्यते। सव्वत्रैव हेतुवैषम्यं कार्ययोनिः। कालबुद्धीन्द्रियार्थानां वैषम्यमयोगातियोगमिथ्यायोगास्तैर्वातादिवैषम्यं कार्यं भवति। धातुसाम्यकरणन्तु ज्वरादिषु चिकित्सायाः काय्र्यम् । मुखावाप्तिः फलं कार्यस्य धातुसाम्यस्य निष्पादं फलं सुखावाप्तिः। स्वस्थस्य धातुसाम्यमेव कार्यस्य रक्षणस्य योनिः कायं धातुसाम्यरक्षणं फलं सुखानुवृत्तिः। कार्यस्य धातुसाम्यरक्षणस्य फलं निष्पादं सुखस्यानुवर्त्तनम् इति। अनुबन्धस्तु खल्वायुर्नी वितमित्यर्थः। भूमिरानूपादिरूपा आतुरः भिपगादिषु संसायेति भिषगादीनि चोपयुक्तान्युदाहरणानि कृत्वा। धातुवैषम्यमिति, विषमतां गता धातव एव हि विषमामवस्थां परित्यज्य समावस्थामापद्यमाना आरोग्याख्यस्य धातुसाम्यस्य समवायिकारणतया कार्ययोनितामापद्यन्ते। सुखावाप्तिरित्यारोग्यावाप्तिः । उक्तञ्च"सुखसंज्ञकमारोग्यम्" इति। आयुश्चानुबन्धरूपम् । यद्यप्येतद् रोगिगतम् न वैद्यगतम्, तथापि वैदेपन काशितत्वाद् वैद्यगतमेव तद्विज्ञेयम्। तेनानुबन्धलक्षणं कर्तारमभिप्रेतीति le silli २११ For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy