SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२२६ चरक-संहिता। ज्वरनिदानम् इति गुणवे संयोगस्यापि संयोगान्तरारम्भे समवायिकारणवं द्रव्यस्य सजातीयद्रव्यान्तरारम्भे समवायिकारणवत्। कार्य्यद्रव्यं हि द्रव्यगुणकम्मेविकारसमुदायात्मकं तत्रारम्भकाणि द्रव्यगुणकर्माणि विक्रियमाणानि खखविकारसमुदायात्मके कार्य समवयन्त्येव वर्तन्ते नासमवायीनि । एवं सति संयोगो यद्यसमवायी स्याद् द्रव्यमप्यसमवायि भवतु ; तस्मात् संयोगेऽपि गुणः समवयन् काय्यद्रव्ये वत्तेते। इति कथमसमवायिकारणमुपपद्यते। तस्मादसमवायिकारणमेव नास्ति गुणकम्मेणामसमवायिकारणववचनं भ्रान्तानां ततस्तदसाधु। कर्माण्यपि स्वस्वाश्रयद्रव्याणि परस्परं संयोज्य विभज्य यथा तत्सजातीयद्रव्यान्तरमारम्भयन्ति तदा गुणांश्च सजातीयगुणान्तरमारम्भयन्ति तथा तदा निजान्यपि परस्परं समवायेन मिलिखा सजातीयविजातीयानि कन्तिराष्यारभयाणानि विकारसमुदायात्मके कार्य समचयन्ति वर्तन्ते इति सयवायिकारणान्येव कर्माणि न बसमवायीनि कारणानि । द्रव्यगुणकम्मे विकारसमुदायात्मकं हि कायद्रव्यम् उक्तमिति। यदि निमित्तकारणं दोप इति कृता दोषस्थायी च ज्वरादिः व्याधिवेत्तितैलनाशे दीप इव नश्यति तर्हि कोऽन्यो दोषादिव्यतिरिक्तो ज्वरादिः किंप्रकृतिको वा ? तदभावात् तद्वचनमसाधु । यदि विक्रियमाणदोषदृष्यविकारात्मको व्याधिनौच्यते दोपतः पृथक् चोच्यते कथं तहिं व्याधिनामानभिशस्य तव्याधिचिकित्सायां सामर्थ्य दोषज्ञानेनोपपद्यते। यत उक्तं स्वयमेव । व्याधयोऽपरिसंख्येया भिद्यमाना भवन्ति हि । रुजावर्णसमुत्थान-स्थानसंस्थाननामभिः ॥ व्यवस्थाकरणं तेषां यथा स्थूलेन संग्रहः। तथा प्रकृतिसामान्य विकारेपदिश्यते ॥ विकारनामाकुशलो न जिहीयात् कदाचन। न हि सर्वविकाराणां नामतोऽस्ति ध्रुवा स्थितिः॥ स एव कुपितो दोषः समुत्थानविशेषतः। स्थानान्तरगतश्चापि विकारान् कुरुते बहून् । तस्माद्विकारप्रकृतीरधिष्ठानान्तराणि च । समुत्थानविशेषांश्च बुद्धा कम समाचरेत्॥ यो हेप्रतत्तितयं शाखा काण्यारभते भिषक् । ज्ञानपूर्वं यथान्यायं स कर्मसु न मुह्यति ॥ नित्याः प्राणभृतां देहे वातपित्तकफास्त्रयः। विकृताः प्रकृतिस्था.वा तान् बुभुत्सेत ननुपशयवदनुपशयोऽपि व्याधिपरीक्षकोऽस्ति । उच्यते च-"गूढलिङ्गं व्याधिमुपशयानुपशयाभ्यां परीक्षेत”। तथा वाग्भटेऽप्युक्तम्,-"विपरीतोऽनुपशयः स ह्यसात्म्यमिति स्मृतः” इति । सत्यमस्ति च, परं निदानग्रहणेनैव गृहीतस्वान्न पृथगुच्यते, अनुपशयोऽपि हेतुसेवयैव भवति। For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy