SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६४८ चरक-संहिता। . रोगभिषगजितीयं विमानम् तस्मानावर्णासम इति। अथोत्कर्षसमस्तु साध्यदृष्टान्तयोधर्मविकल्पादुभयसाध्यखाच भवति । दृष्टान्तधर्म साध्येन समासक्तं कुर्वन् हेतुरुत्कर्षसमो भवति । यथा क्रियावानात्मा क्रियाहेतुगुणयोगाल्लोष्ट्रवदिति। लोष्ट्रवदंव स्पशवानपि भवति। अथ न स्पर्शवानात्मा लोष्ट्रवत् । क्रियावानपि लोष्ट्रवत् स्पर्श न प्राप्नोतीति विपव्यये वा विशेषो वक्तव्यः। इत्युत्कर्षसमे क्रियाहेतुगुणयोगन्तु दृष्टान्तस्य लोष्ट्रस्यापकगुणगुरुवादिधर्म क्रियावदात्मना साध्येन सह समासक्तं कुर्वन् द्वयोः क्रियाहेतुगुणेष्वात्मगुणश्चैतन्यमुत्कर्षस्तद् योगसम इति। तस्य परिहारश्च किश्चित्साधादुपमाने वैधादुपसंहारसिद्धेर्न प्रतिषेध इति क्रियाहेतुगुणयोगे दृष्टान्तो लोष्ट्रवदिति किश्चित्साधर्म्यात् । पाञ्चभौतिकं हि लोष्ट्र तत्र वायवादीनि सक्रियाणि तद्वत्त्वात् सक्रियम् । आत्मा च सक्रियो मनसा सक्रियेण सह योगादिति वैधाद यथा लोष्ट्र क्रियाहेतुगुणयुक्तं न तथात्मेति उपसंहारसिद्धरुत्कर्षसमतया हेतोः प्रतिषेधो न युक्त इति। अथापकसमश्च साध्यदृष्टान्तयोधर्म विकल्पादुभयसाध्यत्वाच्च भवति। साध्ये हि धर्माभावं दृष्टान्तात् प्रसक्तं कुर्वन् हेतुरपकर्षसमो भवति । क्रियावान् आत्मा क्रियाहेतगुणयोगाल्लोष्ट्रवदिति लोष्ट्रः क्रियावान् न तु विभुष्टान्तः। आत्मा तु क्रियावान् विभुश्चाविभुर्भवतु। अपको ह्यविभुखं लोप्ट्रस्येति साध्ये क्रियाक्त्यात्मनि विभुखधाभावं दृष्टान्ताल्लोष्ट्रात् प्रसक्तं करोति क्रियाहेतगुणयोग इत्येष हेतस्तस्मादपकर्षसमः। तस्य परिहारश्च किश्चित् साधादुपमाने वैधादुपसंहारसिद्धेरपतिषेध इति। आत्मनः क्रियावत्वे किञ्चित्साधर्म्याल्लोष्ट्र उपमानं सिधाति गुरुखादिभिगुणाष्ट्रः इलेश्मवर्द्धनादिकर्मकृत् । आत्मा च चैतन्यादिगुणयोगाचेतनखादिकर्मकृदिति साधादुपमानात्। वैधादविभुखविभुत्वाद् यथा लोष्ट्रो न विभुन तथात्मा भवत्यविभुरित्यपसंहारसिद्धरपकर्षसमतया हेतोः प्रतिषेधो न युक्त इति। अथ विकल्पसमोऽपि साध्यदृष्टान्तयोधेम्मे विकल्पादुभयसाध्यखाच भवतीति। यथा-साधनधर्मयुक्ते दृष्टान्ते धर्मान्तरविकल्पात् साध्यधर्मविकल्पं प्रसक्तं कुर्वन् हेतुर्विकल्पसमो भवति। यथा क्रियावानात्मा क्रियाहेतुगुणयोगाल्लोष्ट्रवदिति। क्रियाहेतुगुणयुक्तं किञ्चिद् गुरुद्रव्यं यथा लोष्ट्रः । किञ्चिच्च लघुद्रव्यं यथा वायुः। एवं क्रियाहेतुगुणयुक्तं किञ्चित् क्रियावत् यथा लोष्ट्रः। किञ्चिद क्रियं यथात्मा। इति विकल्पसमवपरिहारे विशेषो वाच्यः। किञ्चित् साधादुपमाने वैधादुपसंहारसिद्धेरप्रतिषेध इति । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy