SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२२४ चरक-संहिता। । ज्वरनिदानम् जित एव न स्यात् कारणतादवस्थ्यात्। दोषविपरीतादस्यायं भेदः। यद् द्रव्यं दोषविपरीतं तन्नावश्यं व्याधि हरति। यया वमनलङ्घने कफहरे कफगुल्मं न हरतः। उक्तं हि-कफे लङ्घनसाध्ये तु कत्तेरि ज्वरगुल्मयोः । तुल्येऽपि देशकालादो लङ्घनं न च सम्मतम् ॥ तथा। न वामयेत् तैमिरिक न गुल्मिममिति। तन्नातिसङ्गतमित्यन्ये । दोषो हि तत्र समवायी न च समवायिकारणाभावान्नियमेन कार्याभाव इति । यदि दोषो निमित्तकारणमुच्यते किमर्थ तर्हि वमनादिना दोपहरणं विधीयते न हि घटादनिमित्तानां दण्ड सूत्रकुलालादीनां विनाशो घटादिविनाशार्थं विधीयते। तबाह । दोषो निमित्तकारणं यत् तु निमित्तकारणस्थायि कायं तन्निमित्तकारणाभावादपि काय्येनाशो भवति, यथा वत्तितैलविनाशात् दीपनाशः पङ्कजलनाशात् पङ्कननाश इति। तस्मादनियमात् समवायिनिमित्ताभावे कार्यनाश इति । असमवायिकारणाभावात् तु नियमेन कार्याभावः। यथा घटस्य कपालमालासंयोगस्यासमवायिकारणस्य नाशाद् घटनाशः। एवं रोगस्यापि सम्माप्तिलक्षणस्य संयोगस्यासमवायिकारणस्य व्याधिविपरीताद्यौषधादिना नाशाद विनाशः। दोषस्तत्र स्वयं निवत्तेते क्रियान्तरेण वा। यदि व्याधिहरं यत् तदवश्यं दोपहरं स्यात् तदा पुनरुभयविपरीताद व्याधिविपरीतस्य भेदो दुरुपादः स्यादिति । इत्येवमुक्तमुभयमेवासाधु। तथा हि दश्यते। पाठादिकं यदतीसारादिहरं न तद दोपहरणपूचकमिति यदुक्तं तत् कथमुपपन्नं स्यात् ? दोषदृष्या हि संयुक्ता विक्रियमाणा ज्वरादिरूपेण जायन्ते। ततो ज्वरादयो न दोषदृष्यातिरिक्ता व्याधिहरणभेषजादिना तस्य नाशः स्यात् सुतरां विकृतदोषदृष्यनाशः स्यात् यतो दोषदृष्यास्तत्र प्रकृतिभूतहेतवः समवायिन एव। यथा मृद्धालुकादिव्यतिरिक्तो न घटः । इति वाप्यचन्द्रवचनं साधु । दोषस्य हेतुशब्देनानुक्तखाद व्याधिबेन ग्रहणात्। तत्र यदुक्तमन्यैः तन्नातियुक्तं यतस्तत्र दोषः समवायी निमित्तं वा। न च समवायिकारणाम्याधिविपरीतार्थकायौं षधं, यथा-छईयां वमनकारकं मदनफलम्। व्याधिविपरीतार्थकार्यन्नं, यथा-अतीसारे विरेककारकं क्षीरम् । उक्त हि-"बहुदोषस्य दीप्ताग्नेः सप्राणस्य न तिष्ठति। पैत्तिको यद्यतीसारः पयसा तं विरेचयेत् ॥” इति । व्याधिविपरीतार्थकारी विहारो यथा-छईयां छईिसाध्यायां वमनार्थं प्रवाहणम्। हेतुव्याधिविपरीतार्थकाय्यौं षधं, यथाअग्निना प्लुष्टेऽगुर्वादिना लेपः । उष्णं हि हेतावग्नौ व्याधौ चानुगुणं प्रतिभाति । हेतुव्याधिविपरीतार्थकार्यन्नं, यथा--मयपानोत्थे मदात्यये मदयुक्त मदकारकं मद्यम् । हेतुल्याधि For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy