SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६४४ वरक-संहिता। (रोगभिषजितीयं विमानम् ___ अथोपालम्भः। उपालम्भो नाम हेतोर्दोषवचनम् । यथा पूर्वमहेतवो हेत्वाभासा व्याख्याताः॥५६॥ निग्रहस्थानप्राप्तं न निगृह्य पक्षान्तरितं परिगृह्य पश्चान्निगृहीते तस्मिन् परे तस्य कालातीतत्वात् तत् निग्रहवचनं न समर्थ भवतीति । गौतमेनाप्युक्तं हेखाभासेषु । कालात्ययापदिष्टः कालातीतः। इति । व्याख्यातञ्चैतद वात्स्यायनेन। कालात्ययेन युक्तो यस्यार्थस्यैकदेशोऽपदिश्यमानस्य स कालात्ययापदिष्टः कालातीत उच्यते। निदर्शनश्च। नित्यः शब्दः संयोगव्यङ्गाखात् रूपवत् । प्राक अर्द्धश्च व्यक्तरवस्थितं रूपं प्रदीपघटसंयोगेन व्यज्यते। तथा च शब्दोऽप्यवस्थितो वीणादण्डसंयोगेन व्यज्यते, दारुपरशुसंयोगेन वा। तस्मात् संयोगव्यङ्गयखान्नित्यः शब्द इत्ययमहेतुः, कालात्ययापदेशात्। व्यञ्जकस्य संयोगस्य कालं न व्यङ्गयस्य रूपस्य व्यक्तिरत्येति। सति प्रदीपघटसंयोगे रूपस्य ग्रहणं भवति। न निवृत्ते संयोगे रूपं गृह्यते। निवृत्ते दारुपरशुसंयोगे दूरस्थेन शब्दः श्रूयते। विभागकाले सेयं शब्दव्यक्तिः, संयोगकालमत्येति। न च संयोगनिमित्ता भवति। कस्मात् ? कारणाभावाद्धि का भाव इति । एवमुदाहरणसाधर्म्यस्याभावादसाधनमयं हेतुर्हेखाभास इति। अवयवविपर्यासवचनं न सूत्रार्थः। कस्मात् ? विपर्यासेनोक्तो हेतुरुदाहरणसाधात् तथा वैधात् साधनं हेतुलक्षणं न जहाति। अजहद्धतुलक्षणं न हेवाभासो भवति। अवयवविपर्यासवचनमप्राप्तकालमिति निग्रहस्थानमुक्तम् । तदेवेदं किं पुनरुच्यते। इत्यतस्तन्न सूत्रार्थः। इति। हेतुमात्रविषयो यः कालातीतः स एवेह हेखाभासेऽभिहितः। साधारणविषयस्तु तन्त्रेऽस्मिन् पृथगुक्तं कालातीतमिति न विरोधः ॥ ५८॥ गङ्गाधरः-एवं कालातीतानन्तरमुपालम्भो शेय इति तदुद्देशः कृतः उपालम्भः। अथोपालम्भ इति । उपालम्भो नाम स यद्यत् खल देतोर्दोषवचनं प्रत्यक्षादिहेतुरुपलब्धिकारणमुक्तं हेतुदृष्टान्तोपनयनिगमनानि स्थापनायां यथावर्ण्यसमश्व विकल्पसमश्च साध्यसमश्च स चोपालम्भो बहुविधः । तद् यथाप्रकरणसमश्च संशयसमश्च वर्णप्रसमश्वावर्णप्रसमश्चोत्कर्षसमश्चापकर्षसमश्च उच्यते। निग्रहप्राप्तमिति निग्रहणीयं ज्ञातम्। हेतोर्दोषवचनमित्यनेन कालात्ययापदिष्टासिद्धयोरपीहानुक्तयोर्ग्रहणं कर्त्तव्यम्। उदाहरणार्थन्तु अहेतव उक्ताः। हेतुवदाभासन्त इति For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy