SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६१८ चरक-संहिता। (रोगभिषजितीयं विमानम् . अथौपम्यम् । औपभ्यं नाम तद् यदन्येनान्यस्य सादृश्यमधिकृत्य प्रकाशनम्। यथा दण्डेन दण्डकस्य, धनुषा धनुःस्तम्भस्य, इवासिनारोग्यदस्येति ॥ ३७॥ समेतद्गोत्र एतत्मवर एतद्वंशज इत्येवमादिनोपदेशेन बुध्यते इति। एतत अवान्तरीयकखेनाप्तोऽपि प्रमाणमिति द्वितीयं मानसं ज्ञानं प्रमाणमाप्तोपदेशः । यदाप्तेनोपदिश्यते वाक्येन स एवमिदमिदं नैवमित्येतद्रूपस्तदभिधायकवाक्यं श्रवणप्रत्यक्षं तद्वाक्यार्थादवगम्यते यत् तदवगमनं ज्ञानमेव मानसं न तु श्रावणम् इति प्रत्यक्षादन्य आप्तोपदेश इति ॥३६॥ - गङ्गाधरः-अथोदिष्टमौपम्यमिति यत् तदाह-अथौपम्यमिति। वादे प्रतिज्ञास्थापनायां दृष्टान्तकरणार्थमनन्तरमौपम्यं ज्ञेयमित्यतस्त्वनुमानेऽन्तर्भूतमषि केनचिद्विशेषेण पृथगिह वादमार्गपदक्षाने प्रोच्यते। तच्चौपम्यं लक्षयति औपम्यं नामेत्यादि। यदन्येन वस्तुनान्यस्य वस्तुनः सादृश्यं साधर्म्य प्रत्यक्षानुमानाप्तोपदेशैः प्रमाणैः पूर्वं प्रमाय यत् प्रकाशते तत् प्रकाशनमौपम्यं नामोच्यते। यथा कश्विद्भिषक् कञ्च पुरुषं दण्डसमस्तब्धगात्रं पश्यन् मनसा तर्कयति दण्डतुल्यस्तब्धगात्रसादस्य दण्डको नाम वातव्याधिः, धनुस्तुल्यस्तब्धगात्रं पश्यन् मनसा तर्कयति धनुःस्तम्भोऽस्य वातव्याधिः। प्राणाभिसरं वैद्य पश्यन् मनसा तर्कयति यथा खल्विष्वासी धनुरादायेषु संयोज्य स्थूलेऽनतिविप्रकृष्टेऽनतिसनिकृष्टे लक्ष्ये क्षिपन कार्य साधयति तथायं भिषक साध्यरोगार्थमात्मवन्तं सोपचारकं सद्रव्यं चिकित्सन् तस्यारोग्यदो भवतीति मानसज्ञानविशेष औषम्यमनुमानविशेषः ततोऽनन्तरं तदनुव्यवस्यति । दण्ड मिव गात्रं स्तम्भयतीत्ययं दण्डकः। धनुर्वन्नमयेद् यद् गात्रं स धनुःस्तम्भसंशित इत्येवमादि। परीक्षितमिदं गौतमेन लक्षणमुक्त्वा, तद्यथा-प्रसिद्धसाधात् साध्यसाधनमुपमानम् । अत्यन्तप्रायैकदेशसाधादुपमानासिद्धिः। प्रसिद्धसाधादुपमानसिद्धेः यथोक्तदोषानुपपत्तिः। प्रत्यक्षेणाप्रत्यक्षसिद्धेः। नाप्रत्यक्षे गवये प्रमाणार्थम् उपमानस्य पश्याम इति । तथेत्युपसंहारादुपमानसिद्धे विशषः । इति । व्याख्यातञ्चैतत् सर्व वात्स्यायनेन । प्रसिद्धसाधात् साध्यसाधनम् चक्रपाणिः-यदन्येनेत्यादी अन्येनेति प्रसिद्धेन। अन्यस्येत्यप्रसिद्धस्य। सादृश्यमधि. कृत्येति सादृश्यं प्रतिपाद्य संज्ञासंज्ञिसम्बन्धं प्रति कारणतया अधिकृत्य, यदा तु भट्टनयेन For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy