SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १म अध्यायः । निदानस्थानम्। १२२१ रोगस्य निदानार्थकरो रोगश्चेत्युक्तं. तत् कुतो हेतुराभ्यन्तरो दोषप्यात्पकोऽभिधीयते ? तस्मादाग्नेयाः पित्तवैषम्यं तद्वषम्यनिमित्ताश्च ज्वरादयः । सौम्याः श्लेष्मवैषम्यं तद्वैषम्यनिमित्ताश्च ज्वरादयः। वायव्या वायुवैषम्यं तद्वैषम्याश्च ज्वरादयः। एषु द्वन्द्वसन्निपातजा अन्तर्भवन्ति। राजसा रजोगुण वैषम्यं तद्वैषम्यनिमित्ताः कापादयश्च। तामसास्तमोगुणवैषम्यं तद्वैषम्यनिमित्ता मोहादयश्च । एषु प्रज्ञापराधजा आगन्तवो ज्वरादयश्चान्तर्भवन्ति । विपरीतानामिति। यद्गुणक्रियो हेतुस्तद्गुणक्रियाविपरीतगुणक्रियावताम् औषधान्न विहाराणाम्। यदगुणक्रियो-व्याधिस्तद्गुणक्रियाविपरीतगुणक्रियावताञ्चौषधान्नविहाराणाम्। यदगुणक्रियो हेतुव्याधी चोभो तदुभयस्य च तदगुणक्रियाविपरीतगुणक्रियावतामौषधान्नविहाराणाम्। विपरीतार्थ कारिणामिति औषधानविहाराणामित्यस्य विशेषणम् । तेनान्वाचये द्वन्द्वात्। यदौषधं यच्चान्नं वा यो विहारो वा यदौषधान्नं ये चौषधान्नविहारा वा हेतु विपरीता न भवन्ति व्याधिविपरीता वा न भवन्ति हेतुव्याध्योरुभयोर्वा विप रीता न भवन्ति भवति च हेतुविपरीतमौषधं वान्नं वा विहारो वा यमर्थ तद्व्याधिप्रशमनं करोति तदर्थकारिणः स्वप्रभावेण तेषाञ्चौषधान्न विहाराणाम् औषधस्य वान्नस्य वा विहारस्य वा द्वन्द्वस्य समुदायस्य वा मुखानुवन्धः उपयोग उत्तरकालं सुखं बध्नाति य उपयोगः स उपशयः। अनुशब्दन आपाततः सुखकरं यन्नोत्तरकालं सुखं बध्नाति तदुपयोगो नोपशयः। यथा सदाहपिपासस्य नववरिणः तत्कालसुखकरं सुशीतलजलपानं नोत्तरकालं सुखकरं तन्नोपशयः। सुखमत्र सुखसंज्ञकमात्मगुणविशेषः दुःखनिवृत्तिः। यदा यथा दुःखं भवति तदा तद्दुःख निवृत्तिः। निःशेषा दुःखनिवृत्तिस्तु मुक्तिः। औषधमुक्तं चतुष्पादं षोडशकलं युक्तियुकं भेषजमिति । तेषु चतुर्यु पादेषु द्रव्यपाद इहौषधं तत्र देशकालयोरप्यन्तर्भावः। तत्र देशा जागलानूपसाधारणभेदाः। तत्र शीतदेशे जावस्य व्याधरुष्णदेशेऽवस्थानम् उष्णदेशे जातस्य शीतलदेशेऽवस्थानमित्येवमुपयोगः। एवं कालस्यापि, यत्विहाराणाम्। तथा हेतुव्याधिविपरीतार्थकारिणाञ्चौषधान्नविहाराणाम्। सुनामुबन्ध इति सुखरूपोऽनुबन्धः। अनुबन्धश्च सुखकराणामित्यर्थः। भयञ्चोपशयो गूढलिङ्गे च व्याधौ ज्ञानोपायो भवति । यदुक्तम् ---"गूढलिङ्गं व्याधिमुपशयानुशयाभ्यां परीक्षेत”। वक्ष्यति च गुल्मे-"स्नेहोष्णमईनाभ्याञ्च प्रणश्येत् स च वातिकः" । तत्र विपरीतार्थकारि तदेवोच्यते, यदविपरीततया आपाततः प्रतीयमानं विपरीतस्यार्थ प्रशमलक्षणं करोति । अत्रोदाहरणानि For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy