SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हम अध्यायः विमानस्थानम्। १६०१ भवति। इष्टार्थेन व्यवच्छिन्ना पदावली सम्भवति नानार्थकवाक्यं यत्रार्थे विवक्षा प्रयोक्तुर्वर्तते तत्रार्थे यावत्पदाभिधानेन विवक्षणीयार्थसमाप्तिस्तावदोऽपीष्टः। सा पदावली वाक्यं न खविवक्षितेन अर्थेन । यथा हरिर्धावति वेगेन जिघांसनरिकुञ्जरमिति । येनार्थन व्यवच्छिद्यते स एवार्थ इह पदावल्यभिधीयते। हरिविष्णुर्वा सिंहो वान्यो वेति तदन्याथ तु न वाक्यम् । तत्र पदं वर्णद्वन्दं यत् सुबन्तं तिङन्तञ्च तत् पदम्। सुवन्तं देवो देवीत्यादि, तिङन्तं भवति गच्छतीत्यादि। ननु तत्र भवतीति भूधातुः ततस्तिप शप भुव उकारस्य गुण ओकारः संहितायामोकारस्यात् ततः सियाति इति। गच्छतीति गमेगच्छादेशे सिधातीति वर्णों विकारी किमादेशीति ? तत्रोक्तं गौतमेन। विकारादेशोपदेशात् संशयः। दथ्योति केचिदिकार - खं हिला यखमापद्यते इति वर्गस्य विकारं मन्यन्ते, केचित् तत्र पुनरिकारस्य प्रयोगे विषये यदिकारस्य स्थानमिकारस्तत्स्थानं जहाति यकारस्तत्स्थानमापद्यते इत्यादेशं ब्रु वते ; उभयमिदमुपदिश्यते, तत्र न ज्ञायते किं तत्त्वमिति संशयः। न तावद्वविकाराः सन्ति, प्रकृतिविद्धौ विकारवृद्धेः; न सन्ति वर्णविकाराः प्रकृतिविद्धौ हि विकारो विवद्धते। द्रव्यविकारेषु प्रकुत्यनुविधानं दृष्टम् । दध्यत्रेति यकारे वृद्धिदीर्घविधानं नास्ति प्रकृतौ पुनरिकारे द्धिश्च दीघेश्च विधीयते। वैकारिक इत्यादौ वृद्धिः, वीसर्प इत्यादौ दीर्घः । तदनुविधानाभावान्नानुमेयो वर्णविकार इति। तत्राह विकारवादी। न्यूनसमाधिकोपलब्धेविकाराणामहेतुः। वर्णविकारप्रतिषेधे प्रकृतिविद्धौ विकारविद्धेरिति हेतुरहेतुः। कस्मात् ? विकाराणां न्यूनसमाधिकोपलब्धेरिति । द्रव्यविकारः प्रकृतेन्यू नाश्च समाश्चाधिकाश्च दृश्यन्ते । द्रव्यविकारदृष्टान्तश्च । नातुल्यप्रकृतीनां विकारविकल्पात्। अतुल्यानां द्रव्याणां प्रकृतिभावो हि विकल्प्यते विकारश्च प्रकृतीरनुविधीयते। न विवर्णमनुविधीयते यकारस्तस्माद द्रव्यविकारो न दृष्टान्तः। तत्राह। द्रव्यविकारवैषम्यवद्वर्णविकारः। यथा द्रव्यखेन तुल्यायाः प्रकृतेविकारवैषम्यं पृथिवीविकार एक विधो जलविकारस्वन्यविधस्तथा वर्णखेन तुल्यायाः प्रकृतेर्विकारविकल्पः। इकारस्य यकारो यकारस्य पुनरिकार इति। न विकारधम्मानुपपत्तेः। नैवं सामान्येन विकारविकल्पः। विकारधर्मानुपपत्तेः। अयं हि विकारधम्मो द्रव्यसामान्येऽपि यदात्मकं द्रव्यं मृद्वा सुवर्ण वा तस्यात्मनोऽन्वये पूर्वव्यूहो निवर्तते व्यूहान्तरञ्चोपजायते, तं विकारमाचक्ष्महे । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy