SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir म अध्यायः विमानस्थानम् । १५६३ बुद्धिवदित्यपरे शब्दस्यानित्यत्ववादिनः। महाभूतसंक्षोभजः शब्दोऽनाश्रित उत्पत्तिधम्मैको निरोधधम्मक इत्यन्ये चानित्यवादिन आहुः। अतो विमर्शहेतोविरुद्धसमालोचनहे तोरनुयोगे च विप्रतिपत्तेविभिन्नप्रतिपत्तितः संशयः किं नित्यः शब्दोऽथानित्य इति। किमत्र तत्त्वमिति। तत्रोत्तरमनित्यः शब्द इति । कुतः ? आदिमत्त्वादैन्द्रियकलात् कृतकवदुपचाराच । आदियौनिः कारणम्। आदीयते यस्मादिति कारणवद नित्यं दृष्टम्। संयोगविभागजश्व शब्दः कारणवत्त्वादनित्यः। का पुनरियमर्थदेशना कारणवदिति। उत्पत्तिधम्मकवादनित्यः शब्द इत्यथदेशना। भूखा न भवति विनाशधरमेक इति । सांशयिकमेतत् । किमुत्पत्तिकारणं संयोगविभागौ शब्दस्य किमभिव्यक्तिकारणमिति। अत आह ऐन्द्रियकलादिति। इन्द्रियप्रत्यासत्तिग्राह्य ऐन्द्रियकः। किमयं व्यञ्जकेन समानदेशोऽभिव्यज्यते रूपादिवत् । अथ संयोगजाच्छब्दाच्छब्दसन्ताने सति श्रोत्रप्रत्यासन्नो गृह्यते इति। संयोगनिवृत्तौ दूरेऽपि शब्दग्रहणान्न व्यञ्जकेन समानदेशस्य ग्रहणं शब्दस्येति । दारुत्रश्चने दारुपरशुसंयोगनिवृत्ती दूरस्थेन शब्दो गृह्यते। न च व्यञ्जकाभावे व्यज्यस्य ग्रहणं भवति। तस्मान्न व्यञ्जकः संयोगः। उत्पादके तु संयोगे संयोगजाच्छब्दाच्छब्दसन्ताने सति श्रोत्रप्रत्यासनस्य शब्दस्य ग्रहणमिति युक्त संयोगनिवृत्तौ शब्दस्य दूरस्थेन ग्रहणमिति। इतश्च शब्द उत्पद्यते नाभिव्यज्यते। कृतकवदुपचारात्। तीव्र मन्दमिति कृतकमुपचर्यते। तीन सुखं मन्दं मुखं ती दुःखं मन्दं दुःख मिति तीव्रखादेरुपचारो यथा सुखादौ तथोपचयेते, तीव्रः शब्दो मन्दः शब्द इति शब्द तीव्रसादुरपचारः। अथ व्यञ्जकस्य तथाभावाद ग्रहणस्य तीवमन्दतारूपवदिति चेन्न। अभिभवोपपत्तेः। संयोगस्य व्यञ्जकस्य तीव्रमन्दतया शब्दग्रहणस्य तीवमन्दता भवति । न तु शब्दो भिद्यते। यथा प्रकाशस्य तीव्रमन्दतया रूपग्रहणस्येति। तच्च नैवम भिभवोपपत्तेः। तीव्रो भेरीशब्दो मन्दं तत्रीशब्दमभिभवति न मन्दस्तीव्रम् । न च शब्दग्रहणमभिभावकं शब्दश्च न भिद्यते। शब्द तु भिद्यमाने युक्तोऽभिभवः। तस्मादुत्पद्यते शब्दो नाभिव्यज्यते। अप्राप्तेऽभिभव इति चेत् शब्दमात्राभिभवप्रसङ्गः। अथ मन्यते, असत्यां प्राप्तावभिभवो भवतीति। एवं वर्णमेलक इत्यर्थः। वर्णानां यद्यपि अत्र सहस्थायिनां मेलको नास्ति, तथाप्येकस्मृतिसमान. रूपित्वेन। किंवा, पूर्वपूर्वानुभवजनितसंस्कारसहितान्त्यवर्णानुभवारोहण मेलको ज्ञेयः । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy