________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः
विमानस्थानम् ।
१५८७ नन्वेष तर्हि कथं निर्णयः स्यात् । एको हि स्वप्रतिशातार्थ हेलादितः स्थापयति परपतिषिद्धश्चोद्धरति। तथैव प्रतिवादी च स्वप्रतिशतमर्थ हेखादिभिः स्थापयति वादिप्रतिषिद्धश्चोद्धरताति। तत्राह-विमृश्येति विमर्श कला पक्षप्रतिपक्षाभ्यामर्थावधारणं यद्भवति द्वयोरेकतरस्य निवृत्तिरन्यतरस्यावस्थानमथवोभयस्यावस्थानमथवौभयस्य निवृत्तिः स निर्णयः। तत्रेयं युक्तिः। एकस्य सम्भवोऽपरस्यासम्भवः प्रमाणैर्य उपपद्यते तौ सम्भवासम्भवौ विमर्श निवत्तयतः। सम्भवपक्षोऽवतिष्ठते, असम्भवपक्षो निवर्त्तते, इति भवति स च सिद्धान्तः। यत्रोभयस्य सम्भवोऽसम्भवो वा तत्र विमौ न निवर्तते । तत्र पुनर्विमर्शः पक्षप्रतिपक्षाभ्यां द्योत्यं न्यायं पुनः प्रवर्तयतीति तथा विमर्टेन थर्मिसामान्यगतौ विरुद्धौ धौ यथा पुरुषो नित्यश्चानित्यश्च हेतुतः सम्भवति। यः खलु पुरुषो जायते देवनरादिरूपेण स नित्यः । यश्च देवनरादिरूपः पुरुषः सोऽनित्य इति तत्र समुच्चयः। नित्यश्थानित्यच पुरुष इति निर्णयः सिद्धान्तः। यत्रैकधम्मिस्थौ विरुद्धौ धम्मौ सम्भवासम्भवौ यथा कश्चिदाह घटो नित्यस्तादूप्येण सिद्धलादिति। परश्चाह अनित्यो घटस्त सद्रूपेण जातवात्। तत्र विमर्शेन पक्षपतिपक्षाभ्यामवधाय्यते, योऽयं घटो जायते स पुनर्न जनिष्यते नश्यति च तस्माद नित्यो न नित्य इति। एवमेकस्य निवृत्तिरपरस्यावस्थितिनिर्णयः सिद्धान्तः। एवं क्रियावद् द्रव्यमिति लक्षणवचने कणादोक्ते क्रियागुणवत्समवायिकारणमिति द्रव्यलक्षणमिति वचने। यस्य द्रव्यस्य स्वभावसिद्धस्य पृथिव्यप्तेजोवायुमनसः क्रियायोगो हेतुतः सम्भवति तत् क्रियावद्भवति। यस्यात्मकालदिगाकाशस्य न सम्भवति क्रियायोगस्तदक्रियमिति द्रव्याख्यैकथर्मिस्थयोविरुद्धयोः सक्रियखनिष्क्रियखयोः अयुगपद्भाविनोः कालविकल्पः । स्वरूपः प्रसिद्धिकाले नवसु द्रव्येषु मनःपृथिव्यादिपश्चकं सक्रियमात्मादिचतुष्कमक्रियम् । कार्यारम्भकाले तु पश्चानां सक्रियाणां चतुर्भिरक्रियैः सह संयोगे तेषां क्रियाभिः पुनःपुनः संयोगविभागाभ्यां नवानामेव पञ्चानां भूतानामन्योन्यानुप्रवेशादन्योन्यानुग्रहादाकाशः सक्रियः स्यात् । नित्यमनोऽनुबन्ध आत्मा मनसः क्रिययोपचरितो रथो गच्छतीतिवत् सक्रियः स्यात् । दिक्कालौ च भूतानुमविष्टौ तेषां क्रियाभिरुपचरितौ सक्रियो भवत इति क्रियागुणवत्समवायिकारणं नवैव द्रव्याणि सम्भवन्तीति कालो विकल्प्यते। अथैक आहुः-वह्निर्मधुरः पाश्चभौतिकलात्, यथेक्षुः। यक्षुः पाञ्चभौतिको मधुरश्च तथा वह्निः पाश्चभौतिकस्तस्मान्मधर इति ।
For Private and Personal Use Only