SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५५० चरक-संहिता। रोगभिषजितीयं विमानम् शिष्यश्चैनमन्शलभेत। हुत्वा च प्रदक्षिणमग्निमनुपरिक्रामेत् । परिक्रम्य ब्राह्मण.न् खस्ति वाचयेत् भिषजश्चाभिपूजयेत् ॥८॥ .. अथैनमग्निसकाशे ब्राह्मणसकाशे भिषक्सकाशे चानुशिष्यात्, ब्रह्मचारिणा श्मश्रुधारिणा सत्यवादिना अमांसादेन मध्यसेविना निर्मात्सरेणाशस्त्रधारिणा च ते भवितव्यम्।नच ते मद्वचनात् किञ्चिदकायं स्यादन्यत्र राजद्विष्टात् प्राणहराद विपुलादधदिनर्थसंप्रयुक्ताद्वाप्यर्थात्।मदर्पणेन मत्प्रधानेन मदधीनेन मत्प्रियहितानुवर्त्तिना च त्वया शश्वद्भक्तिव्यम् । पुत्रवदासवदर्थिवच्चोपचरेतानुवस्तव्योऽहम्। अनुत्सुकेनावहितेनानन्यमनसा विनीतेनावेक्ष्यावेक्ष्यकारिणानसूयकेन चाभ्यनुज्ञातेन प्रविचरितव्यम्। अनुज्ञातेन चाननुज्ञानेन च प्रविचरता पूर्व सूत्रकारानात्रेयादीन त्रिविर्जुहुयात् । शिष्यश्च एन होमं कुर्यात् । हुला शिष्यस्तमग्निं प्रदक्षिणं दक्षिणभागे कृता त्रिः परिक्रामेत् । परिक्रमानन्तरं ब्राह्मणान् स्वस्ति वाचयिखा भिषजश्व पूजयिखा ॥८॥ __गङ्गाधरः-अथेत्यादि। ततः परमेनं वर्तमानं शिष्यमनुशिष्यात्। अनुशासनमाह-ब्रह्मचारिणेत्यादि। निर्मात्सरेण मात्सय्यरहितेन ते भवितव्यमिति कृयोगेऽनभिहिते कर्तरि षष्ठी तु न सङ्गच्छते श्मश्रुधारिणेति तृतीयान्तविशेषणानुपपत्तेः । छन्दसि बहुलखात्तु वयेति । न चेति ते तव मदवचनात् किश्चित् अकार्यं न स्यात् । मदवचनतः सर्व कर्त्तव्यमेव तवेत्यर्थः । अन्यत्र राजद्विष्टादिभ्यः। राजद्विष्टादिषु मद्वचनतो न ते कार्यमकर्त्तव्यम्। मदर्पणेन यत् किश्चित् प्राप्यं भिक्षया तत् पुनर्मह्यमर्पितु शीलवता । अनुत्सुकेन औत्सुक्यवजनेन । जुहुयादिति योजना। तेन ब्रह्मादिऋग्भिराशीःप्रयुक्ताभिब्रह्मणे स्वाहेत्यन्ताभिर्होमः कर्त्तव्यः । शिष्यश्चैनमन्वालभेतेति शिष्योऽपि गुरुहोमानन्तरमेव जुहुयादित्यर्थः ॥ ८॥ चक्रपाणिः–ते भवितव्यमिति त्वया भवितव्यम्। प्रविचरितव्यमिति चिकित्सार्थ व्यव For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy