SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५४४ चरक-संहिता। . रोगभिषगजितीयं विमानम् ज्ञापनसमर्थश्च। इत्येवंगुणो ह्याचार्यः सुक्षेत्रमार्त्तवो मेघ इव शस्यगुणैराशु सुशिष्यं वैद्यगुणैः सम्पादयति। तमुपसृत्यारिराधयिषुरुपचरेदग्निवच्च देववच्च राजवच्च पितृवच्च भत्तू वच्चाप्रमत्तः। ततस्तत्प्रसादात् कृत्स्नं शास्त्रमवगम्य सततशीलनं यस्य तं नाचार्य विद्यात् । शिष्याणां गुणेष्वपि दोषारोपणसम्भवे तत्त्वार्थप्रवचनाकरणे तत्पत्तिसम्भवात् । अकोपनमिति कोपशीलस्य शिष्याणामध्यापने दुर्बोधवाक्यप्रवचनार्थवहुवादप्रतिवादे कोपसम्भवे तदर्थप्रवचनाभावात् । क्लेशक्षम शिष्याणामध्यापनं हि न क्लेशं विना भवतीति क्लेशक्षममाचार्य विद्यात् । शिष्यवत्सलं शिष्येषु विना वात्सल्यं न गुरोविद्यातत्त्वं लभ्यते शिष्यैरिति । अध्यापकं प्रागध्यापककल्पं पश्चात् तु शिष्याणामध्यापनेनाध्यापकम्, न हि पूर्वमेवाध्यापकता सम्भवति । ज्ञापनसमर्थ शिष्याणां तदर्थज्ञापनेऽशेषविशेषेण व्याख्यानसामथ्येवन्तम्। नन्वेवंविधः आचार्यः किं प्रयोजनमन्यादृशे चाचार्य को दोष इत्यत आह-एवंगुणो ह्याचार्य इत्यादि। यथात्तवो मेघः सुक्षेत्रं शस्यगुणः सम्पादयति तथा तथाविध आचार्यः शिष्यमाशु वैद्यगुणैः पथ्यवदातश्रुततादिभिः सम्पादयति । ननु तथाविधत्वेनाचार्य परीक्ष्य किं कुर्यादित्यत आहतमित्यादि। तमुपसृत्य उपगम्य तमाचार्यमाराधयितुमिच्छुराराद्धमिच्छुरित्यर्थः। स्वार्थे णिच् छान्दसखात्। अग्निवदित्यनेन नित्यापेक्षित्वं सूचितम्। देववच्चेत्यनेन पूज्यतमत्वं सूचितम् । राजवच्चेत्यनेन शासितृत्वं ख्यापितम्, तच्छासने सभयं तिष्ठे दिति सूचितम् । पितृवच्चेत्यनेन वात्सल्यात् पितृवदपरिहार्यत्वं ख्यापितम् । मर्तृवच्चेत्यनेन यथा प्रतिपालकस्याधीनत्वं तद्वदधीनखमुरीकुयादित्यर्थः ख्यापितः। अप्रमत्तः प्रमादशून्यः सन्, न तु प्रमादनान्यथा तमुपाचरेत्। तथा तदुपचरणेन किं स्यादित्यत आह-तत इत्यादि । तत्प्रसादात् तस्य गुरोः प्रसन्नखात् । कृतनं निखिलं तत् तत्रमधिगम्येत्यनेन कृतनतत्तत्राधिगममात्रलाभः स्यादिति ख्यापितम् । वृत्त्यभावात् कर्मदर्शनं न भवति। अनुपस्कृतविद्यमिति शास्त्रान्तरज्ञानेन नास्त्येवोपस्कृता विद्या यस्य स तथा। यश्चायुर्वेदज्ञः सन् शास्त्रान्तरेणापि संस्कृतो भवति, स तु नितरामुपादेयः । आर्तव इति यथोचितकालभवः। अग्न्यादिबहुदृष्टान्तदर्शनेन, येन येन भावेनारन्यादयः सेन्यन्ते, For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy