SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५३८ चरक-संहिता। व्याधितरूपीयं विमानम् मात्राधिकं पुनः शिरोविरेचनवमनोपशमनभूयिष्ठं तेष्वौधधेषु क्रिमीणां श्लेष्मजानां चिकित्सितं कार्यम् । इत्येष क्रिमिनो भेषजविधिरनुव्याख्यातो भवति । तमनुतिष्ठता यथास्वं हेतुवर्जने प्रयतितव्यम् । यथोदेशमेवमिदं क्रिमिकोष्ठचिकित्सितं यथावदनुव्याख्यातं भवतीति ॥ १५ ॥ भवन्ति चात्र। अपकर्षणमेवादौ क्रिमीणां भेषजं भवेत् । ततो विघातः प्रकृतेर्निदानस्य च वर्जनम् ॥ एष एव विकाराणां सर्वेषामपि निग्रहे। विधिदृष्टस्त्रिधा योऽयं क्रिमीनुदिश्य कीर्तितः॥ संशोधनं संशमनं निदानस्य च वजनम् । एतावद्भिषजा कार्य रोगे रोगे यथाविधि ॥ १६ ॥ यदौषधमास्थापनानुवासनानुलोमहरणभूयिष्ठं तदौषधयल्पमात्रमल्पपरिमाणं पुरीषजानां क्रिमीणां चिकित्सितं कार्यम् । तेषूक्तेषु औषधेषु मध्ये यदौषधं शिरोविरेचनवमनोपशमनभूयिष्ठं तदौषधम् अधिकमात्रमधिकमानं इलेष्मजानां क्रिमीणां चिकित्सितं कार्यमिति पुरीषजश्लेष्मजयोश्चिकित्सितस्य विशेषः ॥ १५ ॥ गङ्गाधरः-सूत्रार्थ व्यवसायाय श्लोकेनाह-भवन्तीत्यादि। अपकर्षणमित्यादि। सर्वरोगाणामिदं चिकित्सितमतिदिशति। एष एवेत्यादि । भिषजां सङ्क्ष पेण काण्याह-संशोधनमित्यादि।- संशोधनमपकर्षणमेव व्याख्यातं चतुर्विधम् । संशमनन्नु, न शोधयति यद्दोषान् समान् नोदीरयत्यपि। समीकरोति च क्रु द्धांस्तत् संशमनमुच्यते ॥ स च प्रकृतिविघात एव। ननु संशोधनसंशमनाभ्यामेव रोगजयो भवति, व्याधीनामपुनभवश्व कथं स्यादित्यत आह-निदानस्य च वज्जनमिति। निदानवर्जनस्य प्रयोजनद्वयं व्याधौ सति क्रियालाघवं विनष्टे चापुनर्भव इति ॥ १६ ॥ वर्तिघट भवति। अल्पमात्रमिति आस्थापनानुलोमहरणद्रव्यातिरिक्त भेषजमल्पमात्रं कर्त्तव्यम् For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy