SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1म अध्यायः निदानस्थानम्। १२११ यस्माद रक्तं विना दोषैने कदाचित् प्रकुप्यति। तस्मात् तस्य यथादोषं कालं विद्यात् प्रकोपणे ॥ इति । इत्येवमेकशो द्विशः समस्ता वा दोषाः शोणितसहिता वा सञ्चिता यदा प्रकुप्यन्ति तल्लक्षणमुक्तं सामान्येन सुश्रुते। तद्यथा-तेषां प्रकोपात् । कोष्ठ-तोदसश्चरणाम्लिकापिपासा-परिदाहान्नद्वषहृदयोत्क्लेदा जायन्ते। इति। तदानुमीयतेऽस्य देहे कोष्ठतोदादिभिर्वातादिप्रकोपोऽभूदित्यस्य वातादिजव्याधिभविष्यतीति न चानुमीयते को व्याधिः भविष्यतीति। एष द्वितीयः क्रियाकालः। ___ यद्यप्यत्र सामान्यतः प्रकोपलिङ्गान्युक्तानि, तथाप्येतानि दोषविशेषतो विभज्य प्रकोपलिङ्गानि विद्यात् । तत्र कोष्ठतोदसञ्चरणाभ्यां वातप्रकोपोऽनुमीयेत । अम्लिकापिपासापरिदाहैः पित्तस्य शोणितस्य च प्रकोपः। अन्नद्वषहृदयोक्लेदाभ्यां श्लेष्मप्रकोप इति । एवं प्रकुपितवातादिदेहः पुमान् यदि तदा तत्प्रतिकारं प्रज्ञापराधान्न करोति तदा यदाधि जनयिष्यति दोषस्तं देशमभिप्रसरति । तदयथा यदुक्तं सुश्रुतेन । अत ऊद्ध प्रसरं वक्ष्यामः । तेषामेभिरातहेतुविशेषैः प्रकुपितानां पय्युषितक्लिन्नोदकपिष्टसमवाय इवोद्रिक्तानां प्रसरो भवति। तेषां वायुगतिमत्त्वात् प्रसरणहेतुः। सत्यप्यचैतन्ये स हि रजोभूयिष्ठो रजश्च प्रवत्र्तकं सव्वभावाणाम्। यथा महानुदकसञ्चयोऽतिद्धः सेतुमवदीयापरणोदकेन व्यामिश्रः सव्वेतः प्रधावति एवं दोषाः कदाचिदेकशो द्विशः समस्ता वा शोणितसहिता वाऽनेकधा प्रसरन्ति। वातः पित्तं श्लेष्मा शोणितं वातपित्ते वातश्लेष्माणौ पित्तश्लष्माणौ वातशोणिते पित्तशोणिते श्लेष्मशोणिते वातपित्तशोणितानि वातश्लेष्मशोणितानि पित्तश्लेष्मशोणितानि वातपित्तकफाः वातपित्तकफशोणितानीत्येवं पञ्चदशधा प्रसरः। तत्र वायोः पित्तस्थानगतस्य पित्तवत् प्रतिकारः। पित्तस्य कफस्थानगतस्य कफवत् । कफस्य च वातस्थानगतस्य वातवत् । एवं क्रियाविभागः। एवं प्रकुपितानां प्रसरताश्च वायोर्विमागेगमनाटोपौ। ऊपाचोषपरिदाहधुमायनानि पित्तस्य । अरोचकाविपाकाङ्गसादाश्छर्दिश्च श्लेष्मणो लिङ्गानि भवन्तीति । तत्र तृतीयः क्रियाकालः। इति । - एतस्मिन् काले विमार्गगमनाटोपाभ्यामनुमीयते प्रकुपितो वायुः प्रसरति वातजो रोगो भविष्यतीति, न तु को रोगो भविष्यति सोऽनुमीयते । तजन्य उन्नीयते। व्याधिपरीक्षायाञ्च सन्देहे जाते यस्य व्याधेहेतुसेवा दृश्यते, स परिकरुप्यते, प्रवमादिहेतुना व्याधिपरीक्षणम् । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy