SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५०६ चरक-संहिता। [ रोगानीकविमानम् रजस्तमसोः परस्परम्, न ह्यरजस्कं तमः। प्रायः शारीरदोषाणाम् एकाधिष्ठानीयानां सन्निपातः संसर्गो वा समानगुणत्वात् । ऐकान्तिकस्वनुबन्धः । रजस्तमसोर्मानसदोषयोः कुतो नियतोऽनुवन्धस्तयोरित्यत आह-न हीत्यादि। अरजस्कं रजो विना तमो वर्तते न, तमो विना रजो न वर्त्तते इत्यर्थात्। रागेण हि प्राप्यामाप्त्या मोहो भवति तमसा च रागवृद्धिः स्यादिति । शारीरदोषाणां वातपित्तकफानामेकाधिष्ठानानां समानगुणवात् वातपित्तकफानां यावन्तो गुणाः समानास्तावदगुणैः प्रायः सन्निपातस्त्रयाणां समवायः। प्रायः संसर्गो वा तेषामन्यतमयोई योः । प्राय इति पदेन कचित् पृथक् दोषाणामप्यभिपातः स्यादिति मूचितं तेन च न रोगोऽप्येकदोपज इति मतमनादृतं कृतमिति। तथा हि ईषत्स्निग्धवेऽपि पित्तस्य यत्किञ्चिद्रौक्ष्यं वातस्य च रोक्ष्यं पित्तस्य मध्यलघुवं वातस्यातिलघुवं पित्तस्य च सूक्ष्मत्वं वातस्य चचलत्वं वातस्य पित्तस्य सरत्वं कटुत्वं पित्तस्य तेन रौक्ष्यं वातस्य सयोनिकं वातस्य दारुणत्वं पित्तस्य तीक्ष्णत्वं सयोनिकमिति पित्तगुणसामान्यं वातस्य। वातस्य शीतत्वं कफस्य च वातकफयोगुणसामान्यम्। पित्तस्येपस्निग्धत्वं कफस्य स्निग्धत्वं पित्तस्य मध्यगुरुत्वं कफस्य गुरुत्वं पित्तस्य द्रवत्वं कफस्य द्रवत्वं पित्तस्य किश्चित् पैच्छिल्यं कफस्य पैछिल्यं पित्तस्याम्लत्वे मध्यस्निग्धवं कफस्य मधुरत्वेन स्निग्धखमिति पित्तकफयोगुणसामान्यमिति। ननु वातस्य शीतत्वं पित्तस्योष्णत्वं शीतविरोधि, वातस्य रुक्षत्वं पित्तस्येपस्निग्धत्वं रुक्षविरोधि, वातस्य लघुत्वं पित्तस्यावरलघुखम् अम्लत्वे मध्यलघुत्वं कटुत्वे ततो विदग्धपित्तस्य व्याधिकर्तृत्वेनाल्पलघुत्वमेवाल्पगुरुत्वं तल्लघुखविरोधिवातस्यामूर्त्तत्वं पित्तस्य द्रवमूतखममूत्तखविरोधि तत् कथं मिथो नोपघातः ? तथा वातस्य रुक्षत्वं तद्विरोधि स्निग्धत्वं कफस्य, लघुत्वं वातस्य गुरुत्वं कफस्य सूक्ष्मत्वं वातस्य स्थूलत्वं सान्द्रत्वं कफस्य चलत्वं वातस्य स्थिरत्वं कफस्य वैशद्य वातस्य पैच्छिल्यं कफस्य खरत्वं वातस्य वर्तमानाः परस्परं बलमभिवर्द्धयन्तः । अत्र च परस्परशब्देन शारीराणां शारीरेण, मानसाना मानसेन, शारीराणां मानसेन, मानसानां शारीरेण चानुबन्धो ज्ञेयः । विकारानुबन्धं दर्शयित्वा दोषानुबन्धमाह-नियतस्त्वित्यादि। शारीरदोषानुबन्धमाह-शारीरस्यादि । एकाधिष्ठामीयानामित्यनेनैकशरीराधिष्ठानप्रत्यासत्त्या संसर्गा दोषाणां For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy