SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३य अध्यायः विमानस्थानम्। १४७३ चेति। एवंविधं ह्यातुरमुपचरन् भिषक् पापीयसाऽयशसा योगम् ऋच्छतीति ॥ २५ ॥ भवति चात्र ।* तदात्वे चानुबन्धे वा यस्य स्यादशुभं फलम् । कर्मणस्तन्न कर्त्तव्यमेतद् बुद्धिमतां मतम् ॥ २६ ॥ तत्र श्लोकाः। पूर्वरूपाणि सामान्या हेतवः सवलक्षणाः। देशोदध्वंसस्य भैषज्यं हेतूनां मूलमेव च ॥ भेषजं न कुर्यादिति। कस्मादिति ? अत आह-एवंविधमित्यादि । हि यस्मात् एवंविधमल्पवादप्रतिकारस्वभावादिकमुक्तमातुरमुपचरन् चिकित्सन् भिषक पापीयसा लोके निन्दाजनकेनायशसा युक्तो भवति ॥२५॥ गङ्गाधरः-भवतीत्यादि। तदाखे चेत्यादि । तदाखे तत् कम्मकरणकाले । अथानुबन्धे उत्तरकालं वा यस्य कर्मणः फलमशुभं स्यात् तत् कर्म न कर्त्तव्यमिति बुद्धिमतां मतमिति ॥२६॥ गङ्गाधरः-अध्यायार्थमुपसंहरति-तत्र श्लोका इति। पूर्वरूपाणीति प्रथमावध्युपक्रम कृता दृश्यन्ते हीत्यादिना जनपदोदध्वंसनस्य पूर्वरूपाणि । अपि खित्यारभ्य देशोदध्वंसस्य सामान्या हेतवस्तेषां लक्षणानि च। विगुणेवित्यारभ्य देशध्वंसस्य भेषजम् । अथ खल्वित्यादिना हेतूनां वाय्वादीनां भवति, न च चिकि पा सिध्यत्यधर्मप्रतिबन्धात् मुमूर्षुलिङ्गान्वितस्येति रिष्टयुक्तस्य, पापीयसेति पापहेतुना पापजनकेनायशसा ॥२५॥ चक्रपाणिः-अनुबन्धे वेत्युत्तरकालम् । संग्रहे पूर्वरूपाणीति नक्षत्रादिविकारः, सस्वलक्षणाः * अधिकमिदं श्लोकद्वयं चक्रपाणिसम्मतं यथा अल्पोदकद्रुमो यस्तु प्रवातः प्रचुरातपः। ज्ञेयः स जागलो देशः स्वल्परोगतमोऽपि च ॥ प्रचुरोदकवृक्षो यो निवातो दुर्लभातपः। अनूपो बहुदोषश्च समः साधारणो मतः ॥ चक्रपाणिकृता टीका यथा-केचिदल्पोदकद्रुमो यस्त्वित्यादिग्रन्थमत्र पठन्ति । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy