SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२ मध्यायः विमानस्थानम् । १४७१ भवति चात्र । शीतेनोष्णकृतान् रोगान् शमयन्ति भिषाविदः । ये तु शोतकुता रोगास्तेषामुष्णं भिषगजितम् ॥ २३ ॥ एवमितरेषामपि व्याधीनां निदानविपरीतं भेषजं भवति । यथापतर्पणनिमित्तानां वाधीनां नान्तरेण पूरणमस्ति शान्तिः, तथा पूरणनिमित्तानां व्याधीनां नान्तरेणापतर्पणमिति। अपतर्पणमपि च त्रिविधं लङ्घनं लड्नबाचनं दोषावसेचनञ्चेति । तत्र लङ्घनमल्पबलदोषाणाम, लङ्कनेन ह्यग्निमारुतवृद्धद्या वातातपपरीतमिवाल्पमुदकमल्यो दोषः प्रशोषमापद्यते। लङ्घनपाचनं तु मध्यबलदोषाणाम् लङ्घनपाचनाभ्यां हि सूर्यासन्तापमारुताभ्यां पांशुभस्मावकोण खि चानतिबहूदकं मध्यबलदोषः गङ्गाधरः-भवतीत्यादि। शीतेनोष्णकृतानित्यादि। भिषाविदो वैद्याः । उष्णकृतान् वाह्य हेतुना तूष्णेन कृतान् रोगान् शीतेन भेषजेन शमयन्ति। एवं शेषार्द्ध व्याख्येयम् ॥२३॥ गङ्गाधरः-एतनिदर्शनेन सर्वव्याधिपूपसंहरति-एवमितरेषामित्यादि। निदानविपरीतमसात्म्येन्द्रियार्थसंयोगप्रज्ञापराधपरिणामानां यस्मात् निदानाजायते यो व्याधिस्तस्य शान्त्यर्थ तन्निदानविपरीतं भेषजं भवति। तद् उदाहरति-तथापतपेणेत्यादि। पूरणं सन्तर्पणम् । किं नु खल्वपतर्पणमित्यत आह--अपतर्पणमपीत्यादि। अल्पवलदोषाणां लङ्घनमपतपेणम्। तत्र हेतुलेनेनेत्यादि। लङ्घनपाचनन्विति मध्यबलदोषाणां लङ्घनपाचने अप न केवलं ज्वर एव शीतोष्णसमुत्थत्वभेदेन उष्णशीतोपचारः, किन्तु सर्वत्रैव ब्याधावेवमित्याह-शीतेनेत्यादि। भिषजश्च ते ज्ञानवन्तश्चेति भिषविदः ॥ २२ ॥ २३ ॥ चक्रपाणिः-न केवलं शीतोष्णसमुत्थयोरेव परं हेतुविपर्यायेण चिकित्सा, किन्त्वपतर्पणादिजे. ऽपि हेतुविपरीतेनेत्याह-एवमित्यादि। अपतर्पणसन्तर्पणाभ्याञ्च सर्वचिकित्सितं गृहीतम् । न ह्यपतर्पणसन्तपणाभ्यां विना अन्यद्विधानान्तरमस्ति चिकित्सायाः, येन सर्व एवोपक्रमाः सन्तर्पणापतर्पणभेदा एव। अत एव विशेषज्ञानार्थमपतर्पणभेदानाह-अपतर्पणमित्यादि। लखनपाचममितिबचनेन यत्र पाचनं क्रियते तत्रावश्यं स्तोकमात्रया लङ्घनं क्रियत इति दर्शयति, For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy