________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४५८
चरक-संहिता। (जनपदोद्ध्वंसनीयविमानम् बहकार लयं स च। महत्तत्त्वे महान्तञ्च प्रकृतिग्रसते द्विज। व्यक्ताव्यक्ता च प्रकृतिव्यक्तस्याव्यक्तके लयः। अव्यक्तं स्यात् तमोलीनं रजसि स्याद्रजस्ततः । सत्त्वे लीनमेवमेव गुणसाम्यात्मकन्तु तत्। अव्यक्तं स्यात् प्रधानाख्यं तत्रस्थाः पुरुषास्तदा। पुमानेकोऽक्षरः शब्दः सोऽप्यंशः परमात्मनः। इति । इत्यवं द्विपराद्धसंवत्सरेषु पूर्णषु खल्वेतदाद्यव्यक्तात्मान्तं सव्वं प्रलीयते । तावत् कालं सर्व तव्याकृताव्याकृतावयवावयवितया प्रसज्यते। इति एष महाकल्पो महाप्रलयो नाम।
तत्राह वादी। न प्रलयोऽणुसद्भावात् । इत्येवं भूम्यादीनामव्यक्तान्तानां विनाशेऽपि प्रलयो न भवति तेषामणुसद्भावात्। नैवं गन्धमात्रादिलक्षणा हि भूम्यादयोऽव्यक्तान्ता अणवस्तेषां स्वस्वप्रकृतो लये त्रुटिभवति नैवाणवः सन्ति ।। तत्राह वादी। परं वा त्रुटेरिति । तथैव स्वस्खप्रकृतौ भूम्यादलये त्रुः परं वाणुसद्भावान प्रलयः। यदुपादानं पुनरव्यक्तं भवति अव्यक्तान्महानित्यवमादि स्यात् तत्तदुपादानन्वणु वर्तत एव ।। तबाह प्रलयवादी। आकाशव्यतिभेदात् तदनुपपत्तिः। तेषामणूनां सद्भावास्यानुपपत्तिराकाशव्यतिभेदात् परमव्योम्नस्तेषामन्तवहिःसमावेशात् तेषां काले प्रलयात् । नैवञ्चेत् तदाकाशस्य असव्वगतत्वं वा स्यात् ।। तत्राह वादी। अन्तव हिश्च कार्य्यस्य कारणान्तरवचनादकाय्य तदभावः । कार्यस्य वस्तुनो ह्यन्तश्च वहिवाकाशव्यतिभेदोऽस्ति कारणान्तरवचनात् बहुनामुपादानकारणानां वचनात् । बहुभिरारब्धे वस्तुनि ह्याकाशमन्तर्गतमाविशति। अकाव्ये तु कथमाकाशमन्तरा बिशेदतस्तु अकाट्येऽन्तरावेशो नाकाशस्य। अव्यक्तादीनामुपादानमकाय तन्नित्यं न तदन्तराकाशसमावेशस्तस्मात् तत्सद्भावो न प्रलयः। न चाकाशस्यासर्वगतवम् । सर्वसंयोगशव्द विभावाच्च सव्वंगतवम्। अव्यूहाविष्टम्भविभुखानि चाकाशधर्माः। तथाण्ववयवस्याणुतरतमवप्रसक्तंरणोः कार्यवप्रतिषेधः ।
तबाह प्रलयवादो। अव्यक्तस्याप्छुपादानं भूतो योऽणुस्तस्य मूर्तिमताञ्च संस्थानोपपत्तेरवयवसद्भावः। यथा खल्वव्याकृतमूर्तिमदव्यक्तं यदणुभिरारब्धं सद्भवति तेषाम् अणूनामपि पृथक् पृथगव्याकृतमूर्तिमत्त्वेन संस्थानमुपपद्यते ततोऽवयवसद्भावः तदवयवावयविप्रसक्तिरा प्रलयात्। तदवयवसद्भावस्त संयोगोपपत्तेश्च । नान्तरेणानेकोपादानम् अवयवो भवति ततोऽनेकोपादानानां संयोगोपपत्तेश्चावयवसद्भावः। तेषामणूनामव्यक्तस्योपादानानां नैकविधा यवस्था। तत्तत्पृथक्पृथगवस्था खनवस्था तत्कारिखात् तदनवस्थानुपपत्तेश्च
For Private and Personal Use Only