SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४५२ चरक संहिता। जनपदोद्ध्वंसनीयविमानम् तत्र देहिनां शतवषमायुनिःशेषेण क्षयं याति। भूम्यादिगुणपादचतुष्टयस्य च क्षयो भवति, धर्मपादचतुष्टयक्षयश्च जायते, चतुर्युगस्य च क्षयो भवति, इत्येवं लोकः प्रलीयते। प्रलयस्तु चतुर्विध उक्त आग्नेयेऽग्निना वसिष्ठाय-नित्यो नैमित्तिकः प्राकृत आत्यन्तिकश्चेति। तद् यथा-चतुर्विधस्तु प्रलयो नित्यं यः प्राणिनां लयः। सदा विनाशो जातानां ब्राह्मो नैमित्तिको लयः । त्रिविधस्त्रिविधायान्तु प्राकृतः प्रकृतौ लयः। लयस्वात्यन्तिको ज्ञानादात्मनः परमात्मनि। नैमित्तिकस्य कल्पान्ते वक्ष्ये रूपं लयस्य ते। चतुर्युगसहस्रान्ते क्षीणप्राये महीतले। अनावृष्टिरतीवोग्रा जायते शतवार्षिकी। इत्यादिभिः नैमित्तिकः कल्पान्तप्रलयः उक्तः तत्र। आत्मानं वासुदेवाख्यं चिन्तयन् मधुसूदनः। कल्पं शेते प्रबुद्धोऽथ ब्रह्मरूपी सृजत्यपि। द्विपराद्धं ततोऽव्यक्त प्रकृतौ लीयते द्विज। स्थानात् स्थानं दशगुणमेकस्मादगुप्यते मुने। ततोऽष्टादशमे भागे परार्द्धमभिधीयते। परार्द्धद्विगुणं यत्र प्राकृतः स लयः स्मृतः । एक दश शतञ्चैव सहस्रमयुतं तथा। लक्षश्च नियुतञ्चैव कोटिरर्बुद एव च। खर्चश्चैव निखर्चश्च शङ्कपद्मौ च सागरः। अन्त्यं मध्यं परार्द्धश्च दशवृद्धोत्तरोत्तरम् । अनादृष्ट्याग्निसम्पर्कात् कृत्स्ने संज्वलिते द्विज । महदादिविकारस्य विशेषान्तस्य संक्षये। आपो ग्रसन्ति वै पूर्व भूमेर्गन्धादिकं गुणम् । इत्यादिना स्वस्वप्रकृतौ भूम्यादीनां लयमुक्त्वा उक्तं पुनर्महान्तश्च प्रकृति सति द्विज। व्यक्ताव्यक्ता च प्रकृतिवाक्तस्याव्यक्तके लयः। इत्येवं महाप्रलयाख्य एकविधः प्राकृतः प्रलय उक्तः। ततः परं निर्वाणाख्यः प्राकृतः प्रलय उक्तो यथा। पुमानेकोऽक्षरः शुद्धः सोऽप्यंशः परमात्मनः। प्रकृतिः पुरुषश्चैतौ लीयेते परमात्मनि। न तत्र सन्ति सर्वेषां नामजात्यादिकल्पनाः । इति प्रधानक्षेत्रज्ञादिवेदविद्यान्तानां परमात्मनि शिवे लयो निर्वाणाख्यः प्राकृतः प्रलय उक्तः। ततः परं महानिर्वाणाख्यः प्राकृतः प्रलय उक्तो यथा। सत्तामात्रात्मकेऽज्ञ ये ज्ञानात्मन्यात्मनः परे। इति। आत्मन इति परमात्मनः परव्योमरूपस्य चतुष्पाद्ब्रह्मणश्चतुर्थपादगायत्रीसहितत्रिपात्पुरुषस्य शिवस्य सत्तामात्रात्मके ज्ञानात्मनि चेतनास्वरूपे परे ब्रह्मणि शक्तो लय इति शक्तिमात्रब्रह्मणोऽवशेषो महानिर्वाणाख्यः प्राकृतः प्रलयस्तृतीयः। इति । विष्णुसंहितायाञ्चोक्तम् । यदुत्तरायणं तदहदेवानां दक्षिणायनन्तु रात्रिः, संवत्सरोऽहोरात्रः, तत्रिंशता मासो, मासास्ते द्वादश वर्षम् । द्वादशवर्षशतानि दिव्यानि तु कलियुगम्, तद्विगुणानि द्वापरं, त्रिगुणानि त्रेता, चगुर्गुणानि तु For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy