SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३य अध्यायः विमानस्थानम् । १४४५ इति श्रुत्वा जनपदोदध्वंसने कारणानि * पुनश्चापि भगवन्तम् आत्रेयमग्निवेश उवाच ।अथ भगवन कुतो मूलमेषां वावादीनां वैगुण्यमुत्पद्यते येनोपपन्ना जनपदमुध्वंसयन्तीति॥ ११ तमुवाच भगवानात्रेयः। सर्वेषामप्यग्निवेश वायवादीनां वैगुण्यम् उत्पद्यते यत्, तस्य मूलमधर्मः। तन्मूलञ्चासत् कर्म पूर्वकृतम्, तयोयोनिः प्रज्ञापराध एव। तद्यथा-यदा वै देशनगरनिगमजनपदप्रधाना धर्ममुत्क्रायाधम्मेण प्रजां प्रवर्तयन्ति, तदाश्रितोगश्रिताः पौरजनएदा व्यवहारोपजीविनश्च तम् अधर्मम् अभिवर्द्धयन्ति। ततः सोऽधर्मः प्रसभं धर्ममन्तर्द्धत्ते, गङ्गाधरः--इति श्रुवेत्यादि स्पष्टम्। अथेत्यादि। हे भगवन् जनपदोदध्वंसने मूलं कारणमेषां वाय्वादीनां कुतो वैगुण्यमुत्पद्यते इत्यन्वयः। येन वैगुण्येनोपपन्ना वातादय इत्यर्थः ॥११॥ गङ्गाधरः-तमुवाचेत्यादि। सव्वेषां वारवादीनाम् । तद् यथेत्यादि । देशनगरनिगमेषु वासिनां जनपदानां मध्ये प्रधाना वेदादिशास्त्रोक्तविधिसदवृत्ताद्यनुशास्तारः प्रज्ञातियोगमिथ्यायोगायोगेधर्ममुतक्रम्यातिक्रम्य प्रजाम अधम्मेण वत्तयन्ति यदा, तदा आश्रितोपाश्रिताः आश्रिता भृत्यादयोऽधीनाः, उपाश्रिताः सामीप्येन वासिनोऽपि धम्मैशासनेनाधीना ये पौरजनपदानाधीनाः। किन्तु शास्त्रविज्ञानरहितलेन सतां व्यवहारानुरूपेण व्यवहरन्त उपजीवितु शीलशालिनः। ततस्तस्माद व्यवहारात् वर्द्धितोऽधर्मस्तेभ्यो जनपदेभ्यः चक्रपाणिः--कुतोमूलं किंमूलमित्यर्थः। तस्य मूलमधर्म इति ऐहिकाधर्म दर्शयति । तन्मूलं वेति तस्य वातादिवैगुण्यस्य मूलं पूर्वकृतं वा कर्म। तेन हि, कोऽप्यधर्मो जन्मान्तरकृतो वातादिवैगुण्यस्य कारणमिति ब्रुवते। तद्-'यदा देश' इत्यादिना त्वैहिकमेवाधर्म यद्वक्ष्यति। एतत्तया प्रत्यक्षत्वेन स्फुटसिद्धान्तार्थम्, न तु जन्मान्तरकृताधर्मस्याकारणत्वेनेति ज्ञेयम्। तयोरित्यैहिकजन्मान्तरीययोः। योनिरिति कारणम्। स्पृश्याभ्यवहार्य्यदोषादिति आत्रेयस्य भगवतः इत्यधिकः पाठः दृश्यते क्वचित् । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy