SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयोऽध्यायः। अथातो जनपदोद्ध्वंसनीयं विमानं व्याख्यास्यामः, इतिह स्माह भगवानात्रेयः ॥१॥ जनपदमण्डले पञ्चालक्षेत्रे द्विजातिवराध्युषिते काम्पिल्यराजधान्यां भगवान् पुनर्वसुरात्रेयोऽन्तेवासिगणपरिवृतः पश्चिमे घर्ममासे गङ्गातीरे वनविचारमनुविचरन् शिष्यमग्निवेशम् अब्रवीत्। दृश्यन्ते हि खलु सौम्य नक्षत्रग्रहगणचन्द्रसूर्यानिलानलानां दिशाच प्रकृतिभूतानाम् ® ऋतुवैकारिका भावाः। गङ्गाधरः-अथ विभिन्नप्रकृत्यादीनां विभिन्नरूपव्याधीनां क्रियाविधानार्थ रसविमानत्रिविधकुक्षीयविमाने उक्त्वा विभिन्नप्रकृत्यादीनां जनपदानामुदबंसकराणामेकविधविकाराणां क्रियाविधानार्थ तेषाश्च दोषभेषजादिमानविशानाय जनपदोदध्वंसनीयं विमानमाह-अथात इत्यादि। जनपदानां जनसमूहानामुध्वंसनमधिकृत्य कृतं विमानं तं तथा। विमीयतेऽनेनेति विमानम्। रसादीनां मानज्ञानहेतुरिति तत्तद्विमानमस्त्यस्मिन्नध्याये इत्यध्यायार्थे छस्य लुक् अध्यायानुवाकयोरिति ॥१॥ गङ्गाधरः-जनपदत्यादि। अन्तेवासिगणैः शिष्यगणैः परितृतः। पश्चिमे धर्ममासे ग्रीष्मतवशेषमासे आषाढ़े, वनविचारं वनविहारं विचरन् विहरन्। किमब्रवीदित्यत आह-दृश्यन्ते हीत्यादि। सौम्य हे वत्स हि यस्मात नक्षत्रादीनामृतुवैकारिका भावास्तदग्रीष्मर्तु लक्षणविपरीतलक्षणसूचका भावा चक्रपाणिः-द्विविधो हेतुळधिजनकः प्राणिनां भवति साधारणोऽसाधारणश्च । तत्र साधारणं प्रतिपुरुषनियतं वातादिजननमाहाराद्यभिधाय बहुजनसाधारणवातजलदेशकालरूपमसाधारणरोगकारणमभिधातु जनपदोद्धंसनीयोऽभिधीयते ॥ १॥ चक्रपाणिः--जनपदोपलक्षितं मण्डलं जनपदमण्डलं, पञ्चालक्षेत्र इति तस्य विशेषणम् । द्विजातिभिरध्युषित इति वचनेन महाजनसेवितेऽपि देशे अधर्मवशाजनपदोद्ध्वंसो वक्ष्यमाणो भवतीति दर्शयति । पश्चिमे धर्ममास इति ज्यैष्ठे । वनविचारमनुविचरन्निति वनं विचर्य्य विचर्यानु * अप्रकृतिभूतानामिति चक्रः । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy