SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २य अध्यायः विमानस्थानम् । आमविषमित्याचनते भिषजो विषसशलिङ्गत्वात्। तत् परम् असाध्यमाशुकारित्वात् विरुद्धोपक्रमत्वाच्चेति ॥८॥ तत्र साध्यमाम प्रदुष्टमलसीभूतमुल्लेखयेदादौ पाययित्वा सलवणमुष्णं वारि। ततश्छेदन-*-वर्तिप्रणिधानाभ्यामुपाचरेत् उपासयेच्चैनम् ॥६॥ विसूचिकायान्तु लङ्घनमेवाग्रे विरिक्तवच्चानुपूर्वी। आम तिर्यग्गतकृत्स्नदेहदण्डवत्स्तम्भकरदोषमलसकमामविषमाचक्षते; विषसदृशमारकलिङ्गखादित्यर्थः। एषोऽनविषाख्य आमप्रदोषोऽलसकस्यैव प्रभेदो न बतिरिक्तः। तस्मादेव तत्तथाविधमलसकं परमुत्कृष्टमसाध्यमाशुकारिखादाशुकारित्वं व्याधिस्वभावात्। विरुद्धोपक्रमवाच्च विरुद्धोपक्रमखमतिप्रदुष्टदोषाणां तिय्यंगगतसात् । सुश्रुते खसाध्यलक्षणान्तरमुक्तं यः श्यावदन्तौष्ठनखोऽल्पसंशो बम्पदितोऽभ्यन्तरयातनेत्रः। क्षामस्वरः सर्वविमुक्तसन्धिर्यायानरः सोऽपुनरागमाय। इति ॥८॥ __ गङ्गाधरः-तयोः क्रियासूत्राण्याह-तत्रेत्यादि । उल्ले खयेत् वामयेत्। ततो लवणोष्णोदकेन वमनानन्तरं छेदनं श्लेष्पच्छेदनीयरसकटादिना श्लेष्मच्छेदन वर्तिरुदावतॊक्तफलवर्तिस्तत्प्रणिधानं गुदै प्रवेशनं पूर्वमाभ्यां दोषनिर्हरणं कुखा तत उपवासयेच्च। एनमलसिनम् ॥९॥ गङ्गाधरः-विसूचिकायामित्यादि। लङ्घनमेवाग्रे ततो विरिक्तवदानुपूर्वी, तद् यथा विमूच्यान्तु लङ्घनमग्रे ततः परं विरेचनं ततः सायाह्न परे वाह्नि सुखोदकपरिषेक बुद्धा दोपगतिमातुरस्य विधाय पुराणानां लोहितशालितण्डुलानां लब्धत्वात्। आमदोषमामविषमाचक्षत इत्यत्र विषसदृशालिङ्ग एवामदोषोऽभिप्रेतः। अत एवं 'विषसदृशलिङ्गत्वात्' इत्युक्तम् । विरुद्धोपक्रमत्वादिति आमापेक्षया यदुष्णं क्रियते तद्विषविरुद्धम्, यच्च विषापेक्षया शीतं क्रियते तदामविरुद्धम् । विषसहशता चामस्यामजननहेतुप्रभावाद् भवति मधुघृतयोग इव विषत्वम्। वर्तिः इति फलवत्तिः ॥ ९ ॥ चक्रपाणिः-आनुपूर्वीति पेयादिक्रम इत्यर्थः। जीर्णाहारमिति विसूचिकालसकयोरिव स्वेदनेति चक्रः । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy