SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १म अध्यायः विमानस्थानम्। १४२१ वीर्य्याविरुद्धमश्नीयात्। अविरुद्धवीर्यमश्नन् हि विरुद्धवीर्य्याहारजैर्विकारै यमुपस्सृज्यते। तस्माद वीर्य्याविरुद्धम् अश्नीयात् ॥ १७॥ इष्ट देशे चेष्टसौंपकरणञ्चाश्नीयात्। इष्टे हि देशे भुञ्जानो नानिष्टदेशजैर्मनोविघातकर वर्मनोविघातं प्राप्नोति। तथेष्टैः सर्वोपकरणैस्तस्मादिष्टे देशे तथेष्टसौंपकरणञ्चाश्नीयात्॥१८ __ नातिद्रु तमश्नीयात्। अतिद्रुतं हि भुञानस्य तत्स्नेहन ® खादनभोजनस्याप्रतिष्ठानं भोज्यदोषसाद्गु ण्योपलब्धिश्च न नियता। तस्मान्नातिद्रुतमश्नीयात् ॥ १६ ॥ गङ्गाधरः-वीर्याविरुद्धमश्नीयादिति । अविरुद्धवीय्यमाहारं विरुद्धवीर्याहारजै रक्तपित्तादिभिः । विरुद्धवीय्यमश्नन् पुनस्तैरुपसृज्यतेऽयं पुरुष इति ॥१७ गङ्गाधरः–इष्टे देशेऽश्नीयादिति। मनोविघातकरैर्वीभत्सादिभिने मनोविघातं प्रामोति, अनिष्टदेशे तु प्राप्नोति। तथेष्टसौपकरणमश्नीयादित्यत्रापि तथाशब्देन अनिष्टोपकरणजर्मनोविघातं न पामोति अनिष्टसौपकरणैस्तु प्रामोति इत्यर्थः ॥१८॥ गङ्गाधरः-नातिद्रुतमश्नीयादिति। तत्स्नेहनस्य भुक्तद्रव्याणां स्वाभाविकस्नेहस्य स्वादस्य भोजनस्य च यथावस्थानं न भवति। अतिद्रुतं भुक्तमाहारजातं न यथावत् स्निह्यति न च यथावत् स्वदते न वा यथावत् प्रतितिष्ठते कोष्ठे। भोज्यानां द्रव्याणां दोषस्य तत्रासत्पाकजमन्दरसगन्धादिकस्य परिणामगतेन मधुरादिना, किंवा आहारजेन रसेन। स्वस्थानस्थेषु दोषेषु इत्यादि जीर्णाहारस्य लक्षणम्। विरुद्धवीर्याहारजैरिति कुष्ठान्ध्यविसदैवरात्रेयभद्रकाप्यीयोक्तः ॥ १६॥१७॥ चक्रपाणिः-मनोविघातकरैर्भावैरिति त्रिविधकुक्षीये वक्ष्यमाणैः कामादिभिश्चित्तोपतापकरैः चित्तधिकारैरिस्यर्थः। तथेष्टैश्च सर्वोपकरणैर्भुजानो मनोविघातं न प्राप्नोतीति योजना, अनिष्टभोजनादेर्मनोविघातो भवति ॥ १८ ॥ चक्रपाणिः-उत्स्नेहनमुन्मार्गगमनम्, अवसदनमवसादः, अप्रतिष्ठानं हृदयस्थत्वेन कोहा* उत्स्नेहनेति चक्रतः पाठः । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy