SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४१८ चरक-संहिता। [ रसविमानम् हितेप्सुः स्यात् । न च मोहात् प्रमादाद्वा प्रियमहितमसुखोदकम् उपसेव्यं किञ्चिदाहारजातमन्यद्वा ॥ १०॥११॥ तत्रेदमाहारविधिविधानमरोगाणामातुराणाञ्च केषाञ्चित् काले प्रकृत्यैव हिततमं भुञ्जानानां भवति । पत्यकादीन् । कालस्य विशेषान् हेमन्तादीन् ज्वरितखाद्यवस्थाश्रयांश्च । उपयोगसंस्थाया विशेषान् जीर्णाजीर्णलक्षणान् मण्डादिकांश्च उपयोक्तविशेषान् पाणाभिसरवैद्यप्रभेदान् बुभुत्सेत बोद्धमिच्छेत् । तदबुभुत्सया कि स्यादित्यतस्तत्र हेतुमाह --बुद्धा चेत्यादि। हितेप्सुरेव स्यान च मोहात् प्रमादाद्वा, मोहोऽत्र प्रकृत्याद्यष्टकाशानं, प्रमादोऽत्र प्रकृत्याद्यष्टकानवधानं तदन्यतरस्मात् प्रियम् आपाततः स्वादनादिना प्रियम्, असुखोदकम् औत्तरकालिकं फलमसुखं दुःखं यस्य तत् तथाभूतमहितमाहारजातमन्यद्वा विहारजातमुपसेव्यं, तेषां विशेषबुद्धया 'तत्प्रकृत्यादिषु मोहममादसम्भवाभावात्। दोषादीनां मानविज्ञानहेतुखमष्टानां मकृत्यादीनां विमानत्वं बोध्यम् ॥१०॥११॥ गङ्गाधरः-नन्वाहारविधिरन्नपानचतुष्के उक्तः, उक्तान्यत्राहारविधिविशेपायतनानि कस्तत्र तावदाहारविधिविशेष इत्यत आह-तत्रेदमित्यादि। इदं वक्ष्यमाणमुष्णमित्यादिना आहारस्य विधेरन्नपानादिकोक्तगुरुलाघबादिविधिभिविधानं करणप्रकारोऽरोगाणां स्वस्थानामातुराणामपि व्याधितानाच केषाश्चित् सम्भवादसम्भवात् तु न सर्वेषामातुराणां स्वस्थानां वा काले आहारकाले प्रकृत्यैव स्वभावेनैव हिततमं हितातिशयम् । ज्ञेयम्, तत्र प्रकृत्या लाघवादिः शुभफलो गुर्वादिश्चाशुभफलः । करणाद्यभिधेयोऽपि विशेषः शास्त्रोक्तः शुभो निषिद्ध स्त्वशुभः। देशासात्म्यं निन्दितदेशजादेश्च द्रव्यस्याशुभं फलम् । एवं कालासात्म्यम् अशुभफलञ्चाजीर्णभोजनादि, तथा ओकसात्म्यञ्चाशुभफलमिति ज्ञेयम्, विपरीतन्तु शुभफलम् । मोहादित्यज्ञानतः, प्रमादादिति ज्ञात्वा रागादित्यर्थः। प्रियमिति तदात्वमात्रप्रियम् । अहितम् इत्यस्य विवरणम्-असुखोदर्कमिति असुखं दुःखरूपम् उदर्कमुत्तरकालीनं फलं यस्य स तथा । अन्यद्वति भेषजविहारादि ॥९-११॥ चक्रपाणिः-तत्रेत्यादाविदमिति वक्ष्यमाणम्। आहारविधिर्विधीयते येनोष्णस्निग्धादिना वक्ष्यमाणेन तदाहारविधिविधानम् । आतुराणाञ्च केषाञ्चिदितिपदेन रक्तपित्तिनां शीतमेव, कफरोगिणामुष्णमेव हितमित्यादि विषण्यंचं दर्शयति। केषाञ्चिः भुआनानामिदमाहारविधिविधाभ For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy