SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४०८ चरक-संहिता। । रसविमानम् क्षारः पुनरौष्ण्यतैदण्यलवणोपपन्नः क्लेदयति त्वादौ पश्चादुपशोषयति दहति पचति भिनत्ति सङ्घातम्। स पचनदहनभेदनार्थमुपयुज्यते। सोऽतिप्रयुज्यमानः केशानिहृदयपुंस्त्वोपघातकरः सम्पद्यते। ये होनन्तु ग्रामनगरनिगमजनपदाः सततमुपयुञ्जते, तेऽप्यान्थ्यपाण्डाखालित्यभाजो हृदयापकर्त्तिनश्च भवन्ति । तद् यथा प्रायः प्राच्याश्चीनाश्च । तस्मात् क्षारं नाभ्युपयुञ्जीत ® ॥ ६॥ . गङ्गाधरः--क्षार इत्यादि। क्षार इति भस्मप्रस्र तोदकनिर्यासः सारभागः। औष्णाक्षणालवणास्त्रयो गुणाः प्रभावाः, क्लेदयत्यादौ पश्चात् शोषयतीति क्रियारूपः प्रभावः क्षारद्रव्यस्य स्वस्यैव न तु तद्गुणोष्णवादेः। औष्णप्रादिगुणप्रभावजक्रियारूपान प्रभावानाह---दहतीत्यादि। पचनदहनभेदनानि त्रीणि गुणप्रभावजानि कर्माणि क्षारस्य प्रभावाः। तदुपयोगार्थमाह-स इत्यादि। तस्य सततोपयोगे दोष उक्तः, स यतः स्यात् तत्प्रभावमाहसोऽतीत्यादि। केशोपघातोऽकालपालित्यं खालित्यश्च, अझ्युपधात आन्ध्यं, हृदयोपघातो वक्षसि कतैनवत्पीड़ा पुस्खोपघातः पाण्ड्यम् । एतस्य सततोपयोगे केशोपघातादिष्वव्यभिचारं दर्शयति--ये हेनमित्यादि। जनपदा जनसमूहाः ग्रामीणा जनपदा वा नागरिका जनपदा वा निगमवासिनो जनपदा वा ये त्वेनं क्षारं सततमुपयुञ्जते तेऽपीत्यपिशब्दात् ग्रामादिवासिनः सर्वे वा अल्पे वा ये सततं क्षारमुपयुञ्जते ते सततोपयोजितक्षाराः सर्वे वाल्पे वाप्यान्थ्यादिभाजो भवन्ति हृदयोपकत्तिनश्च भवन्ति। पाण्डा क्लष्यं खालित्यमिन्द्रलप्तरोगः केशस्य च्यवनादपुनभावः । पालित्यमकाले केशपकता। हरादिप्रयोगेषु ज्वरादीन् हन्ति पिप्पली। अयञ्च पिप्पल्यतियोगनिषेधोऽपवादं परित्यज्य ज्ञेयः। तेन, न पिप्पलीरसायनप्रयोगस्तथा गुल्मादिषु वर्द्धमानपिप्पलीप्रयोगो विरोधमावहतीति। उक्त हि विषये यथोक्तविधानेन निर्दोपा एव पिप्पल्य इति ऋषिवचनादुन्नीयते । अन्ये तु, अन्नसंस्करणे पिप्पल्यादीनामतिप्रयोगो निपिध्यते, न तु स्वातन्त्रेषणेति ब्रवते। स हुउपयोगोऽतिमात्रत्वेन तथा सततप्रयोगेण चेति ज्ञेयम् ॥ ५॥ चक्रपाणिः-हृदयापकर्त्तिन इति हृदयपरिकर्तनरूपवेदनायुक्ताः । . * नात्युपयुञ्जीतेति चक्रः । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy