SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४०४ चरक-संहिता। रसविमानम् द्रव्यप्रभावं पुनरुपदेच्यामः। तैलसपिमधूनि वातपित्तश्लेष्मप्रशमनानि द्रव्याणि। तत्र तैलं स्नेहोष्ण्यगौरवोपपन्नत्वाद्वातं शमयति सततमभ्यस्यमानम् । वातो हि रौक्ष्यशैत्यलाघवोपपन्नो विरुद्धगुणो भवति, विरुद्धगुणसन्निपाते हि भूयसा अल्पमवजीयते। तस्मात् तैलं वातं जयति सततमभ्यस्यमानम् । गङ्गाधरः-द्रव्यप्रभावमिति यद् द्रव्यं यत् कर्म कत्तुं यथा प्रभवति तत्कर्मकरत्वेन तस्य प्रभुत्वं प्रभावस्तम्। तैलेत्यादि । तैलादीनि त्रीणि द्रव्याणि वातादीनां त्रयाणां क्रमेण प्रशमनानि समुदायप्रभावेण न त्वेकैकरसादिप्रभावेण। तद विवृणोति--तत्रेत्यादि। तत्र तैलसपिर्मधुषु मध्ये तैल तिलप्रभवं स्नेहरूपं द्रव्यं पाञ्चभौतिकमपि तिलप्रकृतिकखात् यत् स्नेहोष्णागौरवोपपन्नत्वं स्वप्रभावस्तस्मादेव वातं शमयति । ननु कस्माद् वातं शमयतीत्यत आह--वातो हीत्यादि। रौक्ष्यशैत्यलाघवोपपन्नवमभावो हि वातस्तस्मात् स्नेहादिस्वभावात् तैलाद विरुद्धगुण इति वातप्रभावात् तैलप्रभावो विशेषो हासहेतुश्च विशेषस्तस्मात् तैलं वातं शमयति। ननु रुक्षः शीतो लघुः सूक्ष्मश्चलोऽथ विशदः खर इत्यनेन वातस्यापि मूक्ष्मत्वं कषायानुरसं स्वादु सूक्ष्ममुष्णव्यवायि चेत्यनेन तैलस्यापि कषायानुस्वादुरसत्वं मूक्ष्मवञ्चोक्तम् इत्यतो वातस्या सूक्ष्मगुणस्य सौक्ष्मागुणेन च तैलेन समानखात् कषायरसेन च तलस्य वातवर्द्धकत्वं कथं न स्यादित्यत आह–विरुद्धत्यादि। येन गुणेन यो या गुणो विरुध्यते ते ते गुणास्तत्तद्गुणविरुद्धगुणास्तेषां गुणानां सन्निपाते ससग तदन्तर्गतेन भूयसा बहुतमेन मानाधिकतमेन च गुणेनाल्पं गुणरूपम् अवजायते। इति न पाठः इति कश्चित्। न हेप्रकस्मिन् द्रव्ये विरुद्धगुणाः चक्रपाणिः-द्रव्यप्रभावमित्यादौ पुनरिति सामान्येन द्रव्यप्रभावकथनात् पुनः शृङ्गग्राहिकतया तैलादिद्वव्यप्रभावं कथयिष्याम इत्यर्थः । प्रशमनार्थानि इति प्रशमनप्रयोजनानि । . सततमभ्यस्यमानमित्यविच्छेदेनोपयुज्यमानं, विरुद्ध गुण इति तैलगुणेभ्यो विपरीतगुणः । विरुद्ध गुणसन्निपात इति विरुद्ध गुणयोर्मेलके। ननु विरुद्धगुणयोर्मध्ये भूयसाल्पं जीयते, तत् कथं तैलं वातं जयति ? न हि अस्य वातं प्रति भूयस्त्वं युक्तमित्याह-सततमभ्यस्यमानमिति । सततोपयोगेन हि तैलं वातादधिकं भवति, तेन वातं जयतीत्यर्थः । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy