SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८म अध्यायः निदानस्थानम्। १३८५ एका शान्तिरनेकस्य तथैकैकस्य लक्ष्यते । व्याघेरेकस्य चानेका बहूनां बा एव च ॥ शान्तिरामाशयोत्थानां व्याधीनां लकनक्रिया। ज्वरस्यैकस्य चाप्येका शान्तिलेछनमुच्यते ॥ तथा लध्वशनाद्याश्च ज्वरस्यैकस्य शान्तयः । एताश्चैव ज्वरश्वास-हिकादीनां प्रशान्तयः॥ एका शान्तिरित्यादि । एवं व्यवस्थिते च एका शान्तिरनेकस्य व्याधरस्ति समानहेतुजलात, यथा शान्तिरामाशयोत्थानां ज्वरातिसारच्छादीनां बहनां व्याधीनां शान्तिरेका लङ्घनक्रिया वह्निमान्य तद्दीपकखात् । तथा तेन प्रकारेण एका शान्तिरेकस्य व्याधेलक्ष्यते विभिन्नहेतुकलात् । यथैकस्य ज्वरस्य लङ्घनमेका शान्तिरुच्यते । __ननु ज्वरातिसारादीनां बहूनां व्याधीनां शान्तिनमुक्तं कथमेकस्य ज्वरस्येति चेन्न। ज्वरातिसारादीनां समानं यन्निदानं केवलात् तस्मान्नातिसारादयः स्युः, किन्वतिसारादीनां कारणान्तरसहकारेण तेन ज्वरसमाननिदानेन तेऽतिसारादयो भवन्ति तत्र सर्वेषु लड़नक्रिया क्रियान्तरसहकारेण विहिता। ज्वरे तु निदानान्तरसहकाराभावे. ऽपि यत् समाननिदानाज्जातस्तत्र क्रियान्तरसहकाराभावेन लानमात्रमेव विहितमिति युक्त्या तदुपपत्तेरिति । एवं व्याधेरेकस्य चानेकाः शान्तयः सन्ति विभिन्नबहुहेतुकखात्। यथा तदाह-तथेत्यादि। लघ्वशनाद्याश्च बगो ज्वरस्यैकस्य शान्तयः। नानाविधबहुकारण नागुणः कुपितदोषाणां नानाक्रियासाध्यखात्। तथा बहूनां व्याधींनां वा एव च शान्तयः सन्ति समानबहहेतुकखात। यथा--एताश्चैव लघ्वशनाद्याः क्रिया ज्वरश्वासहिक्कादीनां शान्तयः स्युः समानबहुकारणेः कुपितवातादिजन्यबाज्ज्वरादीनाम् । श्वासादिकारणान्तरयोगेण समानबहुतत्तत्कारणजेषु श्वासादिषु बहुषु व्याधिषु च लध्वशनाद्या बहाः शान्तयः श्वासादिकारणातिरिक्तखकीयः कारणयोगं विनापि श्वासादिसमानबहुकारणतः सम्भूते लेकस्मिन् बरे विषमारम्भादयो हि वातज्वरे तथा वातश्वासे वातहिकायां वा यथासम्भव इयन्स एव । एतच्चातुर्विध्यं चिकित्सायामपि व ते एकेन्यादि । १७४ For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy