SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir म अध्यायः निदानस्थानम्। ११८७ शुभाशुभानि तज्जौ च धमाधम्मो काले परिणामात् फलहेतुखात् परिणामसंशो भवतः। एतदुक्तं कतिधापुरुषीये-कालस्य परिणामेन जरामृतानिमित्तजाः। रोगाः स्वाभाविका दृष्टाः स्वभावो निष्प्रतिक्रियः। निद्दिष्टं देवशब्देन का यत् पौव्वदेहिकम् । हेतुस्तदपि कालेन रोगाणामुपलभ्यते । न हि कम्न महत् किञ्चित् फलं यस्य न भुज्यते। क्रियानाः कम्मेना रोगाः प्रशमं यान्ति तत्क्षयात् । इति। यस्वाह प्रज्ञापराधेनाशुधकौणि कुव्वन्ति प्रज्ञासमयोगेन शुभानि तज्जातावपि धमाधम्मो तत्र प्रज्ञापराधे प्रशासमयोगेऽन्तभूताविति तदसाधु, चरकस्यैतद्वचनविरोधात् । प्रज्ञा च यदपराध्यति तदपि कृतत्रेतादिकालवशेन। न ह्यादिकाले पूर्वकृतमासीदशुभकर्मज फलं किमपि येन बुद्धिरपराध्येत। तदा कालविशेष एवं प्रज्ञापराधे हेतुः, कालो हि स्वभावतः शुभाशुभहेतुः प्रसिद्ध स्तिथ्यादियोगेनानुमेयः, तहेतुकञ्च प्राक् कम्म यदशुभं कृतम् अशुभकाले समागते प्रज्ञातत्त्वविदामतत्त्वाविदाश्वापराध्यति, तत् काल प्रज्ञापरावजं तत्कलमधम्म परिणाम एवोच्यते । आदिकारणतो हि संज्ञा भवति, फलजननञ्चेदानी कालेन परिणामादेवेति, परिणामे धर्माधर्मान्तर्भावो न प्रज्ञापराधसमयोगयोरिति । ननु भवखेवं कालस्य त्रिविधा योगा व्याधिहेतवः, शीतोष्णवर्षलक्षणो यः संवत्सरः कालस्तस्य यथास्खलक्षणयोगेऽपि दोषाणां चयप्रकोपप्रशमाः प्रायड़ादिपु जायन्ते, जीणभुक्तमजीर्णान्नकाले च प्रकोपो जायते, पूर्वाहादिषु च स च कालः को हेतुः किंचतुर्थः, तथाले त्रिविधवव्याघात इति ; उक्तं प्राक् शीतोष्णवर्षलक्षणः संवत्सरः स काल इति, तस्य स्खलक्षणस्य कालस्यातियोगायोगमिथ्यायोगव्यतिरिक्तसमयोगास्तत्कृताश्चयप्रकोपप्रशमा वातादीनां प्राकृती गतिः। अतिमात्रस्खलक्षणस्य कालस्यातियोगः कालातियोगः, हीनलक्षणकालस्य योगः कालायोगः, यथास्वलक्षणविपरीतलक्षणस्य कालस्य योगः कालमिथ्यायोगः, इति त्रिविधयोगो वैकृतः, तस्माद्वातादीनां चयप्रकोपप्रशमाः, वातादीनां प्राकृती गतिः, इत्युक्तं कियन्तःशिरसीये। चयप्रकोपप्रशमाः पित्तादीनां यथाक्रमम् । भवन्त्येकैकशः पटमु कालेष्वभ्रागमादिषु । गतिः कालकृता चैपा चयाद्याः पुनरुच्यते । गतिश्च द्विविधा दृष्टा प्राकृती वैकृती तथा। इति । वातादीमिथ्यायोगभेदात् विविधत्वदर्शनार्थञ्च ; एतच्च हेतुत्रितयमुक्तमपि पुनः प्रकरणवशादच्यमानमिह न पुनरुक्त दोषमावहति ; एतच्चासात्म्येन्द्रियार्थादेस्त्रैविध्यं मूलकारणं प्रति नियामकम् ; तेन ज्वरसन्तापाद रक्तपित्तमुदीर्यतेइत्यादुधक्तरोगादेरपि प्रत्यासन्नकारणावबोधो नोद्धावनीयः । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy