SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६ष्ठ अध्यायः निदानस्थानम् । १३५१ दोषेषु वा भावेषु पात्रोदकानसूपापूपोपदंशपरिवेशकेषु। भुक्तवतोऽप्यस्य हल्लालस्तथोल्लेखनम याहारस्य अन्तरान्तरा, मुखस्य पादयोश्च शोषः, पाण्योश्चावेक्षणमत्यर्थम् अक्षणोः श्वेतावभासता चातिमात्रं बाह्वोश्च प्रमाणजिज्ञासा, स्त्रीकामता, निणित्वं, बीभत्संदर्शनता चास्य काये। स्वप्ने चाभीक्ष्णं दर्शनमनुदकानामुदकस्थानानां, शून्यानाच ग्रामनगरनिगमजनपदानां, शुष्कदग्धभग्नानाञ्च वनानां, कृकलासमयूरवानस्शुकसर्पकाकोलूकादिभिः स्पर्शनमधिरोहणं वा यानं वा वराहोष्ट्रखरः, केशास्थिभस्मतुषाङ्गारराशीनाश्चाधिरोहणमिति शोषपूवरूपाणि भवन्ति ॥ १३ ॥ सनपात्रादिषु चादोषवत्सु अल्पदोषयुक्तेषु वा दोषदर्शनम् । इदं भोजनपात्रं मलिनमन्यादृशं वेत्येवमादिदूषणप्रदर्शनम्। हल्लास इति हृदयस्थदोषस्योपस्थितवमनवमिव भुक्तवत एव न बभुक्तवतः। तथान्तरान्तरा-अन्तरा अन्तरा मध्ये मध्ये कदाचित कदाचित भुक्तवतस्तस्याहारस्योल्लेखनं वमनं भवति । मुखस्य पादद्वयस्य च शोषः शुष्कता । पाण्योः कराग्रद्वयस्यात्यथेमवेक्षणं प्रायेण स्वकरद्वयस्य भद्राभद्ररूपतया दर्शनमकारणम् । बाह्वोर्लाहुद्यस्य प्रमाणस्य स्थूलादिपरियाणस्य प्रायेण जिज्ञासा । स्त्रीकामता स्त्रीरिरंसुता। निघृणित्वं घृणाशून्यता। बीभत्सदर्शनता च काये स्वशरीरे निन्दनीयरूपतया दर्शनम् अनिन्दनीयत्वे। स्वप्ने च उदकस्थानानां नदीनदसरस्तडागदीर्घिकाकूपपुष्करिण्यखातादीनामनुदकानामुदकशून्यत्वेन दर्शनम् । निगमो नगरस्य पुटभेदः। ग्रामनगरादीनां शुन्यानां जनरहितत्वेन दर्शनम् । तथा स्वप्ने वनानां शुष्कवादिरूपदर्शनम् । तथा कृकलासादिकत्त कस्वकम्मकस्य स्पशेनस्य अधिरोहणस्यं वा स्वप्ने दर्शनम् । एवं स्वप्ने वराहोष्ट्रखरैः करणैर्यानं गमनम्, चकारात् चिकित्सास्थानोक्तमक्षिकाघुणादिपतनादीन्यपि समुच्चीयन्ते । क्रियमाणे शोषे उसस्थश्लेष्मसंसर्गाढ बोद्धव्यः ; यतश्च प्रायेण कफोऽत्र स्थानमहिम्ना प्रकुपितो भवति ; तेन शोपं कफप्रधानलिङ्गत्वेन श्लेष्मरोग इति च अवते। अदोषेप्विति पात्रादिविशेषणम् ; पाण्योश्चावेक्षणादि पूर्वरूपं प्रभावात् ; बीभरसदर्शनता काय इति विवर्णविगन्धत्वा For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy