________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ष्ट अध्यायः ।
निदानस्थानम्।
१३४६ हि ते ज्ञयाः प्रत्येकं धातुसंशिताः । इति सुश्रुतवचनादित्येतद्वग्राख्यातुः प्रमादाच्च तन्न ग्राह्यम् । सुश्रुतो हि स्वमते शोषं षड़ रूपमेकादशरूपञ्च व्याख्यायानन्तरं तदसाध्यलक्षणमुक्त्वा-व्यावायशोकस्थाविय्ये व्यायामाध्वोपसेवनात् । व्रणोरक्षतपीठाभ्यां शोषानन्ये वदन्ति हि। इति वचनेन व्यवायादिजान् शोषान् निर्दिश्य तेषां शोषाणां परस्परं भेदविशापनार्थ स्वस्वहेतुव्यवायादिनानि व्यवायशोषी शुक्रस्य क्षयलिङ्गरुपद्रत इत्यादीनि लक्षणान्युक्तवान्, न तु तत्र तत्र त्रिदोषाणां बलविशेषजानि ादिषड़ादाकादशादीनि लक्षणानि प्रतिषिद्धवान् । केषाश्चिदेव शोषो हीत्यादिवचनेन पुनर्येषां केषाश्चित् शोषाणां केवलं रसादिधातुक्षयहेतुव्यवायादिजनितानि लक्षणानि भवन्ति न तु दोषाणां समस्तलिङ्गानि, ते हि तत्तद्वावायादिमानहेतुजलक्षणैः भेदमात्र. मापन्नाः शारीररसादिधातुशोषा दोषत्रयस्य समस्तलक्षणाभावात् प्रत्येक धातुसंशिताः क्षया एव ज्ञयाः, रसक्षयरक्तक्षयेत्येवमादिसंशाः क्षयरोगाः शे या न तु राजयक्ष्माण इति शापितवान्। शोषानन्यान् वदन्ति हीति पाठोहि न तत्र साधुश्च भवति, व्यवायशोषी शुक्रस्य क्षयलिङ्रुपद्रत इत्यादिभिः वचनैः प्रत्येकं व्यवायादिहेतुजलक्षणोपदर्शनेनैव दोषलक्षणाभावेन राजयक्ष्मनिरासे लब्धे तेषां संज्ञाकथनार्थ क्षया एव हि ते शेयाः प्रत्येकं धातुसंशिता इत्येव वचनेन चरितत्वे केषाश्चिदेव शोषो हीत्यादिवचनस्य वैयर्थ्यापत्तेः। _वातपित्तश्लष्माणः प्रकोपमापद्यन्ते इति एवमित्यनेनान्वयात् उक्तप्रकारेण साहसकर्मणा वायुः प्रकुपित उरःस्थश्लेष्माणं पित्तश्चोदीरयेदिति साहसकम्मेणा त्रिदोषप्रकोपः। तथा सन्धारणेन प्रकुपितोऽपि वायुः पित्तश्लेष्माणावुदीरयतीति सन्धारणेनापि त्रयो दोषाः कुप्यन्ति । एवं शोकादितो रसक्षयात् अतिव्यवायाच शुक्रक्षयात् प्रकुपितो वायुररसिकं शरीरम् अनुसपन पित्तश्लेष्माणाबुदीरयेदिति क्षयादपि त्रयो दोषाः कुप्यन्ति। एवं विषमाशनात् तु युगपदेव त्रयो दोषाः कुप्यन्ति इत्यर्थः । एतेन पृथक् द्वन्द्व. दोषतो न राजयक्ष्मा भवतीति ख्यापितमेकैकदोषद्विदोषप्रकोपणानां राजयक्ष्मनिदानानामभावात् । सुश्रुतेनाप्युक्तम्-स व्यस्तैर्जायते दोषैरिति केचिद वदन्ति हि। एकादशानामेकस्मिन् सानिध्यात् तन्त्रयुक्तितः॥ क्रियाणाश्चाविभागेन प्रागेवोत्पादनेन च। एक एव मतः शोपः सन्निपातात्मको ह्यतः । उद्रेकात् तत्र लिङ्गानि दोषाणां निपतन्ति हि॥ क्षयाद वेगपतीघाताद
For Private and Personal Use Only