________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३३०
चरक-संहिता। । कुष्ठनिदानम् जन्तुमन्ति कृष्णारुणकपालवर्णानि च कपालकुष्ठानीति विद्यात् ॥८॥
ताम्राणि ताम्ररोमराजिभिः * अवनद्धानि बहलानि बहुबहलपूयरक्तलसीकानि कण्डक्लेदकोथपाकदाहवन्ति आशुगतिसमुत्थानभेदीनि ससन्तापक्रिमीणि पक्कोदुम्बरफलवर्णानि + उडुम्बरकुष्ठानीति विद्यात् ॥ ६॥
निग्धानि गुरुण्युत्सेधवन्ति श्लक्षणस्थिरपीनपर्यन्तानि शुक्लरक्तावभासानि + शुक्लराजीसन्तानानि बहुवहलशुक्लरक्तपिच्छिलास्रावीणि बहुकण्डूक्रिमीणि सक्तगतिसमुत्थानभेदीनि परिमण्डलानि मण्डलकुष्ठानीति विद्यात् ॥ १०॥ भेदजन्तुमन्तीति आशुखङ्मांसादिभेदकरक्रिमियुक्तानि । कृष्णारुणकपालवत् खपेरवद्वर्णयुक्तानि । तस्मादेव कपालाख्यानि कुष्ठानि इति विद्यात् । अत्र सुप्तसुप्तनिस्तोदादिवेदनाविशेषः, कृष्णारुणकपालवर्णादिवर्णविशेषः, रुक्षारुणादिखरपय्येन्तादिः संस्थानविशेषः, तत्रापि विषमविस्तखखरपर्यन्तबादिः प्रभावविशेषः, कपालेति नामविशेषः। एवं परत्रापि सर्राणि कुष्ठानि व्याख्यातव्यानि ॥८॥
गङ्गाधरः-ताम्राणीत्यादि । ताम्ररोमराजीभिः पिञ्जराकारतया अवनद्धानि। बहलानि धनानि । बहुवहलेति बयो घनाश्च पूयरक्तलसीका यत्र तानि तथा। आशुगतिसमुत्थानभेदिखचैषां पित्तस्य सरखेन तदगतवातस्य चलनात् । ससन्तापत्वं क्रिमीणां पित्तदूषितरक्तस्थानजखात्। पकोडुम्बरफलवर्णखादुडुम्बराखाणीति विद्यात् ॥९॥
गङ्गाधरः-स्निग्धानीत्यादि। उत्सेधवन्तीत्युच्चानि अन्तदेशे इलक्ष्णानि स्थिराणि पीनानि च। तेन न चलन्ति। बहुकण्डूक्रिमीणीति कफदूषितइत्यर्थः ; कपालः स्थाल्यादिखण्डः । सक्तानि चिरभावीणि गत्यादीनि येषां ते तथा। ऋष्यजिह्व
* ताम्रखररोमराजीभिरिति चक्रभृतः पाठः। + पक्कोडुम्बरफलानीति द्वितीयपाठः ।
+ शुक्लरोमराजीसन्तानानि तथा बहुलबहलशुक्लपिच्छिलसावीणि तथा बहुक्लेदकडूक्रिमी. जीति पाठान्तराणि दृश्यन्ते।
For Private and Personal Use Only