SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५मः अध्यायः निदानस्थानम् । १३२३ खलु समानप्रकृतीनामपि कुष्ठानां दोषांशांशविकल्पानुबन्धस्थानविभागेन वेदनावर्णसंस्थानप्रभावनामचिकित्सितविशेषः ॥ ३॥ - स सप्तविधोऽष्टादशविधोऽपरिसंख्येयविधो वा भवति । तत् तथा। तेनैकदृष्यनिमित्तमपि नेति ख्यापितं, न वा द्विदोषदृष्यनिमित्तम् इति च । ननु मिलितसप्तधातुकखे कथं सप्तधा प्रसरो भवतीत्यत आहअस्ति खित्यादि। समानप्रकृतीनां वातपित्तकफबङमांसरक्तलसीकेतिसप्तधातुप्रकृतिकवेऽपि चास्ति कुष्ठानां तत्तद्वातादिदोषाणामेकादुरल्वणोऽशांशविकल्प इति एकद्विादश विकल्पेन विभागस्तथा दोपाणामनुबन्धेन स्थानेन खङ्मांसादिरूपेण च विभागस्तेन वेदनाविशेषो यातनाविशेषो वर्णविशेषश्च । संस्थानविशेष इति मण्डलाद्याकारभेदः । प्रभावविशेष इति अचिन्त्यक्रियाविशेषः। नामविशेष इति कापालादिनामभेदः। चिकित्सितविशेषः क्रियाविशेषः। तस्मात् नामविशेषादेव सम्पद्यते। इति विशेषशब्दस्य वेदनादिप्रत्येकेनान्वयायाख्येयं, तन्न, परन्तु वेदनादिभिर्विशेषः प्रभेद इत्यर्थः ।।३॥ गङ्गाधरः-ननु वेदनावर्णसंस्थानप्रभावनामचिकित्सितैः समानप्रकृतीनां कुष्ठानां कतिवियो विशेष इत्यत आह-स इत्यादि । स वेदनादिभिर्विशेषः । ननु दोषांशांशविकल्पनैः किं कुष्ठानां साध्यखादयो विकल्प्यन्ते, किमथ कारणानाम्, अवान्तरभेदाभावे हि कारणानां कार्यस्याप्यनेकरूपत्वमेव स्यात् ; दोषांशांशविकल्पस्य तथा स्थानस्य च विभागेन च वेदनाविशेषः कुष्ठे भवतीति वाक्यार्थः ; दोषाणाम् अंशमंशं प्रति विकल्पोऽशांशविकल्पः ; क्वचिद्वायुः स्वस्य रुक्षांशेन प्रकुपितो भवति क्वचित् शैत्यांशेनेत्यादि ; तथा दोपदूष्यरूपस्थानविभागेन च वेदनाविशेषो भवति ; वचनं हि"तत्र रसादिस्थानेषु प्रकुपितानां दोपाणां यस्मिन् यस्मिन् स्थाने ये ये व्याधयो सम्भवन्ति" इत्यादि ; स्थानञ्च यद्यपि चतुर्विधदूप्यरूपनियतम्, तथाप्येष दोषस्येव दूष्ये व्याप्तपादिकृतः स्थानविभागो ज्ञेयः। तत्र वेदनाविशेषः-"कापालं तोदबहुलम्" इत्यादि। वर्णविशेषः"काकणन्तिकावर्णम्' इत्यादि। संस्थानविशेषः- "यदृष्यजिह्वसंस्थानम्" इत्यादि ; प्रभावविशेषः-"साध्यताऽसाध्यतादिः । नामविशेष:-“कापालः" इत्यादि ; यतश्च समानेऽपि कारणे दोषांशांशविकल्पस्थानविभागेन वेदनाविशेषः कुष्ठभेदकोऽस्ति, अतः सप्तविध इत्यादि योजनीयम् ; सप्तविध इत्यत्रैव, वक्ष्यमाणमहाकुष्ठभेदेनाशादशविधस्तु चिकित्सावक्ष्यमाणभेदेन, अपरि For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy