SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४र्थ अध्यायः निदानस्थानम्। उष्णाम्ललवण ना कटुकाजीर्णभोजनोपसेविनः तथातितीक्ष्णातपाग्निसन्तापश्रमक्रोधविषमाहारोपसेविनश्च, तथाविधशरीरस्यैव पित्तमाशु प्रकोपमापद्यते । तत् प्रकुपितं तयैवानुपूर्ध्या प्रमेहानिमान् षट् क्षिप्रतरमभिनिर्वर्त्तयति। तेषामपि अन्यत्राप्युक्तं-सुरामेही सुरातुल्यमुपयेच्छमधोधनमिति। अणून सिकतावत् सूक्ष्मान् मूर्त्तान् मूत्तिमतो मत्रगतान् दोषान् मेहति ॥६॥ गङ्गाधरः-अथ पित्तमहान वक्ति--उष्णाम्लत्यादि। एतन उण्णा-; म्लादयो विषमाहारान्ता निदानविशेषा इत्युक्तम् । तथाविधशरीरस्यैवेत्यनेन बहुबद्धमेदोदुष्टमांसशरीरक्लेदशुक्रशोणितवसामजलसीकारसोजांसि दृष्यविशेषा इत्युक्तम् । पित्तमित्यनेन पित्तोल्वणास्त्रयो दोपा दोपविशेषा इत्युक्तम् । आशु प्रकोपमापद्यते इत्यनेन त्रयाणामेषां निदानादिविशेषाणां सनिपाते प्रागतिभूयस्वान् वातकफानुगं पित्तमाशु प्रकोपमापद्यते इत्युक्तम्। सुश्रुतेऽप्युक्तं-“वातकफशोणितमंदोभिरन्वितं पित्तं पित्तमेहान् जनयतीति।” तत् वातकफानुपित्तं तयैवानुपूर्वोति क्षिप्रमेव शरीरमृप्तिं लभते शरीरशैथिल्यात तत् विसर्फत् शरीरे मेदसैवादितो मिश्रीभावं गच्छति मेदसश्चैव बहुबद्धखात् । मेदसश्च गुणानां स्नेहद्रवादीनां समानगुणभूयिष्ठखात्। तत् मेदसा मिश्रीभवत् सन्दषयत्येनं विकृतखात्। विकृतन्तु तत् तेन च दुष्टेन मेदसोपहतं शरीरक्लेदमांसाभ्यां संसर्गमेति। क्लेदमांसयोरतिप्रमाणाभिवृद्धखात् । तत् तु मांसे मांसप्रदोषान् पूतिमांसपिड़काः शराविकाकच्छपिकायाः संजनयत्यपकृतिभूतवात्। शरीरक्लेदं पुनर्दू पयत् तत् पित्तं मूत्रवेन परिणमति । मूत्रवहाणाञ्च वङ्गणवस्तिप्रभवाणां स्रोतसां मेद क्लेदोपहितानि गुरूणि मुखान्यासाद्य प्रतिरुध्यते, ततः प्रमेहानिमान षट् क्षिपतरमभिनिव्वतयति । भवति। मूर्तीनिति कठिनान् ; दोपानिति जाती बहुवचनम् ; येन, दोषोऽत्रैक एव प्रभूतः कफः। तन्तुबद्धं तन्तुबद्दीर्घमित्यर्थः। लालामिवालालं समन्ताल्लालारूपमित्यर्थः। प्रति प्रति मेहञ्च श्लेष्मकोपत इत्यादिवचनं सुखग्रहणार्थम्। न चेह वाच्यम्-यद्-यथा श्लेष्मगुणा दश प्रमेहान् जनयन्ति, न तथा किमित्यपरानपि गुणसंसर्गविकल्पान्तरेण कुर्वन्तीति ; यतः, भावस्वमावोऽयम्-यथा दृट एव परं कल्प्यते नादृष्टे च ; न हि सत्यपि भूतसंसर्गभूयस्त्वे रसभूयस्त्वं भवतीति व्यवस्थितमेव ॥ ६॥ चक्रपाणिः-उष्णेत्यादिना पित्तमेहनिदानम्। पट क्षिप्रतरमिति श्लेष्ममेहापेक्षया ; For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy