SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२६४ चरक-संहिता। गुल्मनिदानम् तु यथास्वमारम्भं प्रणयेत्, संसृष्टांस्तु साधारणेन कर्मणोपचरेत् । यच्चान्यदप्यविरुद्धं मन्येत, तदप्यवचारयेद्विभज्य गुरुलाघवमुपद्रवाणां समीक्ष्य। गुरूनुपद्रवांस्त्वरमाणश्चिकित्सेत् जघन्यमितरांस्त्वरमाणश्च। विशेषमनुपलभमानो गुल्मेषु दोपजे विति। तुशब्दो भिन्नक्रमे तेन साध्ये तु एकदोपजे यथास्वं स्वारम्भकदोपहरमारम्भं कर्म प्रणयेत् कुर्यादित्यर्थः। संसृष्टांस्विति। स्वकारणकुपितवातपित्तजं तथा वातकफजं पित्तकफजश्च साधारणेन वातपित्तादिद्वन्द्वदोषहरेण कर्मणा विरेचनादि-स्वेदादिना च । एतेन द्वन्द्वजानां परिसङ्घाया गणनाभावेन च प्रकृतिसमसमवायारख्यत्वं ख्यापितम् । आचाय्योणामियं हि रीतिः-प्रायेण विकृतिविषमसमवायारब्धान् द्वन्द्वसन्निपातजान् व्याधीन् परिसङ्ख्यया गणयित्वा तेषां लिङ्गानि साक्षात् पठित्वा प्रकृतिसमसमवायारब्धान् न गणयिखा अतिदेशेन लिङ्गान्युपदेश्य क्रियाभिधीयत इति। यच्चान्यदिति । तदारम्भकदोषहरमपरदोषाविरुद्धं तदपि गुरुलाघवं विभज्य गुरुखेन वृद्धे दोष लघुद्रव्यं लघुखेन वृद्धे गुरुद्रव्यमिति विभज्य अवचारयेत् । एतदुपदर्शनमात्र, तेन स्निग्धत्वादिगुणैरपि वृद्ध रौक्ष्यादिगुणविभागः कर्तव्यः। नन्वत्र यदुवपद्रवा वलवन्तः सन्ति, तत्र किं व्याधिहरणमादौ कत्र्तव्यं तत्प्रशमनं चोपद्रवाः प्रशाम्यन्ति, किमुतोपद्रवान् प्रशमयेदित्यत आह--उपद्रवाणामित्यादि। ननूपद्रवाणां गुरु लाघवं समीक्ष्य किं कुर्यादित्यत आहगुरूनित्यादि । उपद्रवाणां वातजे प्रादुर्भूते वेदनाप्लीहाटोपादीनां मध्ये, पित्तजे ज्वरभ्रमादीनां मध्ये, कफजे कासश्वासादीनां मध्ये, गुरूनतिपीड़ाकरानुपद्रवान् समीक्ष्य खरमाणः शीघ्रः सन् तान् चिकित्सेत्। ननु किं लघन न चिकित्सेदित्यत आह-जघन्यमित्यादि। जघन्यं पश्चात् इतरान् लघनुपद्रवान्। ननु व्याधेर्विशेषोपलब्धिविधानं न खरया भवति, यदि च गुल्मोऽतिद्ध आत्ययिक कम्ने कुरुते तदा खरमाणः किं कुर्यादित्यत आह चक्रपाणिः-पित्तादिकृतेष्वपि तु गुल्मेषु सम्प्राप्तिसिद्धस्य वातस्य प्राधान्यमाह-सर्वेष्वपि For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy