SearchBrowseAboutContactDonate
Page Preview
Page 1087
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२ अध्यायः इन्द्रियस्थानम्। २२४६ भवन्ति चात्र। यद् द्वादशभिरध्यायासतः परिकीर्तितम् । मुमूर्षतां मनुष्याणां लक्षणं जावितान्तकृत् ॥ तत् समासेन वक्ष्यामि पर्यायान्तरमाश्रितम् । पर्यायवचनं श्रुत्वा विज्ञाना-*-योपकल्पते ॥ २६ ॥ अत्यर्थं पुनरेवेयं विवक्षा नोपपद्यते। तस्मिन्नेवाधिकरणे यत् पूर्वमभिदर्शितम् ॥३०॥ गङ्गाधरः-शिष्यान् प्रत्यनुग्रहेण धारणार्थम् अर्थदाार्थञ्च संक्षेपेण विस्तरेण द्वादशाध्यायप्रोक्तारिष्टलक्षणान्याह-भवन्तीत्यादि। यद् द्वादशभिरित्यादि। मुमूर्षतां मनुष्याणां जीवितान्तकृद यल्लक्षणं वर्णखरीया. दिभिरेतदन्तैदशभिरध्यायैासतो विस्तरतः परिकीर्तितं, तत् सर्च मनुष्याणां मुमूर्षतां जीवितान्तकृल्लक्षणं पर्यायान्तरमाश्रितं तदर्थवाचकसंस्कृतान्तरेण समासेन संक्षेपेण वक्ष्यामि। ननु कस्मादित्यत आह–पर्यायवचनमित्यादि। यस्मात् पर्यायवचनं तदर्थवाचकसंस्कृतान्तरवचनं श्रुखा विज्ञानाय पूर्वोक्तार्थज्ञाननिश्चयाय संक्षेपतो बुद्धया बुद्धा कण्ठेन धृवा च स्वल्पकालेनातुराणां सर्वारिष्टलिङ्गशानाय च उपकल्पते अध्येता ॥ २९ ॥ गङ्गाधरः-ननु कथं पुनरपि विस्तरेण विवक्षते इत्यत आह-अत्यर्थमित्यादि। इयमेवारिष्टलक्षणस्य विवक्षा पुनरिम् अत्यर्थमतिशयेन नोपपद्यते। कस्मादित्यत आह-तस्मिनित्यादि। यद् यस्मात् पूर्वमेव तस्मिन् तस्मिन् वर्णस्वरीयादावधिकरणेऽभिदर्शितं विस्तरेण दर्शितमिति ॥३०॥ चक्रपाणिः-सम्प्रति द्वादशाध्यायोक्त रिष्टं दुरधिगमार्थं संग्रहेण स्पष्टीकरणार्थमाह-यत् द्वादशभिरित्यादि। पर्यायान्तरमाश्रितमिति संज्ञान्तरेण कीर्तितम् । अर्थविज्ञानायेति पूर्वाभिधानात् शब्दस्यानेकार्थाभिधायित्वादिना यत्र सन्देहो मिथ्याज्ञानं वा भवति, तस्य शब्दान्तरेण अभिधानादुक्तार्थो भवतीति ॥ २९ ॥ ३० ॥ * यर्थविज्ञानाय इति च पाठः। For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy