SearchBrowseAboutContactDonate
Page Preview
Page 1085
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२श अध्यायः] २२४७ १२श अध्यायः] इन्द्रियस्थानम् । इत्यौत्पातिकमाख्यातं पथि वैद्यविहितम्। इमामपि च बुब्येत गृहावस्थां मुमूर्षताम् ॥ २२ ॥ प्रवेशे पूर्णकुम्भाग्नि-मृद्वीजफलसर्पिषाम् । वृषब्राह्मणरत्नानां देवतानाञ्च निर्गतिम् ॥ अग्निपूर्णानि पात्राणि भिन्नानि विशिखानि च । भिषग् मुमूर्षतां वेश्म प्रविशन्नेव पश्यति ॥ २३ ॥ छिन्नभिन्नाभग्नानि दधानि मृदितानि च । दुर्बलानि च सेवन्ने मुमूर्षोवैश्मिका जनाः ॥ २४ ॥ शयनं वसनं यानं गमनं भोजनं रुतम् । श्रूगते मङ्गलं यस्य नास्ति तस्य चिकित्सितम् ॥ २३॥ आतुराय गच्छता वर्त्मनि एतान्या रास्तानि शृण्वतापि. तदागारं न गन्तव्यम् ।। २।२२ ॥ गङ्गाधरः-पथि चौत्पातिकमुक्त्या आतुरकुलानामौत्पातिकमाह-प्रवेशे इत्यादि। आतुरभवनप्रवेशकाले वैद्यः पूर्णकुम्भादीनां निर्गतिम् आतुरभवनान्निःसरणं, तथाग्निपूर्णानि पात्राणि भिन्नानि भग्नानि विशिखानि मुमर्षतामातुराणां वेश्म प्रविशन् पश्यत्येव ॥२३॥ गङ्गाधरः-छिन्नेत्यादि। आतुरस्य वैश्मिका गृहनियता जना यदि छिन्नभिन्नादीनि वस्तुनि सेवन्ते, तदा तमातुरं मुमप विद्यादिति भावः। मुमचौरातुरस्य हि वैश्मिका जनाश्छिन्नादीनि वस्तूनि सेवन्ते ॥२४॥ गङ्गाधरः- शयनमित्यादि। यस्य शयनादिकममङ्गलं श्रूयते तस्य चिकित्सितं नास्ति ॥२५॥ इति विडालादिभिर्मार्गलकनम् । मृगद्विजाः क्रूराः शृगालगृध्रादयः। दीप्ता दिक, यस्या सूर्यो वर्तते, किंवा दक्षिणा दिक दीप्तोच्यते। शयनं खटादि। आसनं पीठादि ॥ २०-२२ ।। चक्रपाणिः-विशिखानीति खण्डितानि । किंवा विशिकानीति पाठः, तदा शयानीत्यर्थः । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy