SearchBrowseAboutContactDonate
Page Preview
Page 1079
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२श अध्यायः इन्द्रियस्थानम् । २२४१ कथयत्यप्रशस्तानि चिन्तयत्यथवा पुनः । वेदो दूता मनुष्याणामागच्छलि मुमूर्पताम् ॥ ११ ॥ भृतद-धविनष्टानि भजति व्याहरत्यपि। अप्रशस्तानि चा यानि वैद्य दूता मुमूर्षताम् ॥ १२ ॥ विकारसामान्यगुणे देशे कालेऽथा भिषक् । दूतमभ्यागतं दृष्ट्वा नातुरं समुपाचरेत् ॥ १३ ॥ गङ्गाधरः-कथयतीत्यादि। चैदाऽप्रशस्तानि कथयति सति, अथवा वैदेऽप्रशस्तानि चिन्तयति सति, अथवा वैदेर मृतं वा दग्धं वा विनष्टं वा भनति सति, किंवा वैदेोऽन्यानि चापरास्तानि व्याहरति वदति व्याहरति वा सति, मुमूर्षतां रोगिणां दूता आगच्छन्तीत्यथः ॥ ११ ॥ १२ ॥ गङ्गाधरः-विकारसामान्पत्यादि। सिकाराणां वायव्याग्ने यसोम्पानां सामान्यगुणो यत्र तस्मिन देशेऽथवा विकारसामान्यगुणे कालेऽभ्यागतं दृतं दृष्ट्वा भिषगातुरं न समुपाचरेत् । तथा च वातरोगिगो दुतो यदि वैद्यनादयितु वैद्यस्य प्रायेण नित्यावस्थितिदेशं कालश्च विना वातवहदेशस्थे वैद्य ऽपराहे वा वा शेषरात्रौ वा वातकाले गच्छति, तदा तं दूतं दृष्ट्वा तद्वातरोगिणं भिषड्न समुपाचरेत् । एवं यदि पित्तरोगिणो वा कफरोगिणो दूत आगच्छति, तदा शुभम् । अथ पित्तरोगिणो दूतो यदि उष्णाभितप्ते देशे स्थिते वैद्य उष्णाभिव्यासक्तदेहे वा मध्याह्न मध्यरात्रे वाप्यायाति, तदा तं रोगिणं नोपाचरेत् । वातकफरोगिणश्चेत् तदा शुभम्। अथ कफरोगिणो दूतो यदि जलायाद्र देशे स्थिते वैद्य पूर्वाह्न पूर्वरात्रे वा रात्रिमात्रे वाप्यायाति, तदा तं कफरोगिणं नोपाचरेत् । वातपितरोगिणश्चेत् तदा शुभमिति भावः। सुश्रुतेऽप्युक्तम् - मध्याह्न चाचरात्र वा सन्ध्ययोः कृत्तिकासु च। आश्लेिपमघामूल पूर्वासु भरणीषु च। चतुर्था वा नवम्यां वा पष्ठयां सन्धिदिनेषु च। वैद्य य उपसर्पन्ति दूतास्ते चापि गहिताः। स्विन्नाभितप्ता मध्याह्न ज्वलनस्य समीपतः। गर्हिताः पितरोगेषु दूता चक्रपाणिः-चिन्तयत्यप्रशस्तानीति सम्बन्धः। व्याहरत्यपि वैदेघ मृतदग्धविनष्टानीति योजना । विकारसामान्यगुणो देशो यथा--रक्तपित्ते ज्वलनसन्निहितो देशः। विकारसामान्यगुणः कालो यथा- रक्तपित्ते मध्याह्न इत्यादि ज्ञेयम् ॥ ११-~-१३ ॥ For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy